________________
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
४७९ सुगमम्, नवरं ग्रन्थादान्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्ग्रन्था:, पुलाकः तन्दुलकणशून्या पलञ्जिः, तद्वद् य: तप:श्रुतहेतुकाया: सङ्घादिप्रयोजने चक्रवर्त्यादेरपि चूर्णनसमर्थाया: लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहित: स पुलाकः, अत्रोक्तम्- जिनप्रणीतादागमात् सदैवाप्रतिपातिनो ज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थपुलाका भवन्ती [तत्त्वार्थभा० सिद्ध० ९।४८]ति, बकुश: शबल:, कर्बुर इत्यर्थः, शरीरोपकरणविभूषानुवर्तितया शुद्ध्यशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविधः, यदाह- मोहनीयक्षयं प्रति प्रस्थिता: शरीरोपकरणविभूषानुवर्तिन: [तत्त्वार्थभा० सिद्ध० ९।४८] तत्र शरीरे अनागुप्तव्यतिकरण कर-चरण-वदनप्रक्षालनमक्षि-कर्णनासिकाद्यवयवेभ्योऽपि दूषिकामलाद्यपनयनं दन्तपवनलक्षणं केशसंस्कारं च देहविभूषार्थमाचरन्त: शरीरबकुशा:, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवास:प्रिया: पात्र-दण्डकाद्यपि तैलमात्रयोज्ज्वलीकृत्य विभूषार्थमनुवर्तमाना बिभ्रति, उभयेऽपि च ऋद्धियशस्कामा:- तत्र ऋद्धिं प्रभूतवस्त्र-पात्रादिकां ख्यातिं च गुणवन्तो विशिष्टा: साधव इत्यादिप्रवादरूपां कामयन्ते, सातगौरवमाश्रिता: नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यता:, अविविक्तपरिवारा:- नासंयमात् पृथग्भूत: घृष्टजङ्घः तैलादिकृतशरीरमृज: कतरिकाकल्पितकेशश्च परिवारो येषामिति भाव:, बहुच्छेदशबलयुक्ता: सर्व-देशच्छेदाहा॑तिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इति । तथा कुत्सितं उत्तरगुणप्रतिषेवया सज्वलनकषायोदयेन वा दूषितत्वात् शीलम् अष्टादशशीलाङ्गसहस्रभेदं यस्य स कुशील इति, एषोऽपि द्विविध एव, अत्राप्युक्तम्द्विविधा: कुशीला: प्रतिसेवनकुशीला: कषायकुशीलाश्च [तत्त्वार्थभा० सिद्ध० ९।४८], तत्र ये नैर्ग्रन्थ्यं प्रति प्रस्थिता: अनियतेन्द्रिया: कथञ्चित् किञ्चिदेवोत्तरगुणेषु पिण्डविशुद्धिसमिति-भावना-तप:-प्रतिमा-ऽभिग्रहादिषु विराधयन्त: सर्वज्ञाज्ञोल्लङ्घनमाचरन्ति ते प्रतिसेवनाकुशीला:, येषां तु संयतानामपि सतां कथञ्चित्सवलनकषाया उदीर्यन्ते ते कषायकुशीला:, निर्गतो ग्रन्थान्मोहनीयाख्यात् निर्ग्रन्थः क्षीणकषाय उपशान्तमोहो वा, क्षालितसकलघातिकर्ममलपटलत्वात् स्नात इव स्नात:, स एव स्नातकः, सयोगोऽयोगो वा केवलीति ।