________________
४८०
__ अधुनैत एव भेदत उच्यन्ते, तत्र पुलाक इत्यासेवापुलाकः पञ्चविधः, लब्धिपुलाकस्यैकविधत्वात्, तत्र स्खलित-मिलितादिभिरतिचारैर्ज्ञानमाश्रित्यात्मानम् असारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किञ्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पञ्चम इति ।
बकुशो द्विविधोऽपि पञ्चविधः, तत्र शरीरोपकरणभूषयो: सञ्चिन्त्यकारी आभोगबकुशः, सहसाकारी अनाभोगबकुश:, प्रच्छन्नकारी संवृतबकुशः, प्रकटकारी असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वम्, किञ्चित्प्रमादी अक्षिमलाद्यपनयन् वा यथासूक्ष्मबकुशो नाम पञ्चम इति ।
कुशीलो द्विविधोऽपि पञ्चविधः, तत्र ज्ञान-दर्शन-चारित्र-लिङ्गान्युपजीवन् प्रतिषेवणतो ज्ञानादिकुशीलः, लिङ्गस्थाने क्वचित्तपो दृश्यते, तथा अयं तपश्चरतीत्येवमनुमोद्यमानो हर्ष गच्छन् यथासूक्ष्मकुशील: प्रतिषेवणयैवेति, कषायकुशीलोऽप्येवम्, नवरं क्रोधादिना विद्यादिज्ञानं प्रयुञ्जानो ज्ञानकुशील:, दर्शनग्रन्थं प्रयुञ्जानो दर्शनत:, शापं ददत् चारित्रतः, कषायैर्लिङ्गान्तरं कुर्वन् लिङ्गतः, मनसा कषायान् कुर्वन् यथासूक्ष्म: । चूर्णिकारव्याख्या त्वेवम्- सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीला:, कषायकुशीलास्तु पञ्चसु ज्ञानादिषु येषां कषायैर्विराधना क्रियत इति । __ अन्तर्मुहर्त्तप्रमाणाया निर्ग्रन्थाद्धाया: प्रथमे समये वर्तमान एकः, शेषेषु द्वितीय:, अन्तिमे तृतीयः, शेषेषु चतुर्थः, सर्वेषु पञ्चम इति विवक्षया भेद एषामिति ।
छवि: शरीरम्, तदभावात् काययोगनिरोधे सति अच्छविर्भवति अव्यथको वा १, निरतिचारत्वादशबल: २, क्षपितकर्मत्वादकम्र्मांश इति तृतीय: ३, ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधरः, पूजार्हत्वादर्हन्, नास्य रहो रहस्यमस्तीत्यरहा वा, जितकषायत्वाजिनः, केवलं परिपूर्ण ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थ: ४, निष्क्रियत्वात् सकलयोगनिरोधे अपरिश्रावीति पञ्चम: ५, क्वचित् पुनरर्हन् जिन इति पञ्चमः । अत्र भाष्यगाथा: