________________
४८१
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । होइ पुलाओ दुविहो इत्यादि वृत्तौ। [सू० ४४६] कप्पति णिग्गंथाण वा णिग्गंथीण वा पंच वत्थाई धारित्तते वा परिहरित्तते वा, तंजहा- जंगिते, भंगिते, साणते, पोत्तिते, तिरीडपट्टते णामं पंचमए ।
कप्पति निग्गंथाण वा निग्गंथीण वा पंच रयहरणाई धारित्तते वा परिहरित्तते वा, तंजहा- उण्णिए, उट्टिते, साणते, पच्चापिच्चियए, मुंजापिच्चियए नामं पंचमे ।
[टी०] निर्ग्रन्थानामेवोपधिविशेषप्रतिपादनाय सूत्रद्वयमाह- कप्पंतीत्यादि कण्ठ्यम्, नवरं कल्पन्ते युज्यन्ते, धारयितुं परिग्रहे, परिहर्तुमासेवितुमिति, अथवा धारणया उवभोगो परिहरणा होइ परिभोगोबृहत्कल्प० २३६७, २३७२]त्ति । जंगिए त्ति जङ्गमा: त्रसास्तदवयवनिष्पन्नं जाङ्गमिकं कम्बलादि, भंगिए त्ति भंगा अतसी, तन्मयं भाङ्गिकम्, साणए त्ति सनसूत्रमयं सानकम्, पोत्तिए त्ति पोतमेव पोतकं कार्पासिकम्, तिरिडवहे त्ति वृक्षत्वङ्मयमिति, इह गाथा:
जंगमजायं जंगिय तं पुण विगलिंदियं च पंचिंदी । एक्कक्कं पि य इत्तो होइ विभागेण णेगविहं ॥ पट्ट सुवन्ने मलये अंसुय चीणंसुए य विगलिंदी । उन्नोट्टिय मियलोमे कुतवे किट्टीय पंचेंदी ॥ [बृहत्कल्प० ३६६१-६२]
पट्टः प्रतीत:, सुवर्णं सुवर्णवर्णसूत्रं कृमिकाणाम्, मलयं मलयविषय एव, अंशुकं श्लक्ष्णपट्टः, चीनांशुकं कोशिकार: चीनविषये वा यद्भवति श्लक्ष्णात् पट्टादिति, मृगरोमजं शशलोमजं मूषकलोमजं वा, कुतप: छागलम्, किट्टिजमेतेषामेवावयवनिष्पन्नमिति।
अयसी वंसीमाई य भंगियं साणयं तु सणवक्के । पोत्तं कप्पासमयं तिरीडरुक्खा तिरिडपट्टो ॥ [बृहत्कल्प० ३६६३] इह पञ्चविधे वस्त्रे प्ररूपितेऽप्युत्सर्गत: कार्पासिकौ% एव ग्राह्ये, यतोऽवाचिकप्पासिया उ दोन्नी इत्यादि [बृहत्कल्प० ३६६४] इति, रयहरणे त्ति रजो ह्रियते अपनीयते येन तद्रजोहरणम्, उक्तं च