________________
४८२
हरइ रयं जीवाणं बझं अब्भंतरं च जं तेणं । रयहरणं ति पवुच्चइ कारणकजोवयाराओ ॥ [ ] इति,
तत्र उन्नियं ति अविलोममयम्, उट्टियं ति उष्ट्रलोममयम्, सानकं सनसूत्रमयम्, पच्चापिच्चियए त्ति बल्वज: तृणविशेष: तस्य पिच्चियं ति कुट्टितत्वक् तन्मयम्, मुञ्ज: शरपणीति, इह गाथा:
पाउंछणयं दुविहं ओसग्गियमाववाइयं चेव । एक्कक्कं पि य दुविहं निव्वाघायं च वाघायं ॥ [निशीथभा० ८१९ ]
औत्सर्गिकं रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिकमनावृतदण्डम्, निर्व्याघातमौर्णिकदशिकम्, व्याघातवत् त्वितरदितिजं तं निव्वाघायं तं एगं उन्नियं ति नायव्वं । औत्सर्गिकं च, उस्सग्गियवाघायं उट्टियसणपच्चमुंजं च ॥ निव्वाघायववाई दारुगदंडुण्णियाहिं दसियाहिं । अववाइय वाघायं उट्टीसणवच्चमुंजमयं ॥ [निशीथभा० ८२३-२४ ] ति । [सू० ४४७] धम्मं णं चरमाणस्स पंच णिस्साठाणा पन्नत्ता, तंजहाछक्काया, गणो, राया, गाहावती, सरीरं ।
[टी०] श्रमणानां यथा वस्त्र-रजोहरणे धर्मोपग्राहके, तथाऽपराण्यपि कायादीनीति तान्येवाह- धम्ममित्यादि, धर्मं श्रुत-चारित्ररूपम्, णमित्यलङ्कारे, चरत: सेवमानस्य, पञ्च निश्रास्थानानि आलम्बनस्थानानि, उपग्रहहेतव इत्यर्थः, षट् कायाः पृथिव्यादय:, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि- पृथिवीकायमाश्रित्योक्तम्
ठाण-निसीय-तुयट्टण-उच्चाराईण गहण निक्खेवे ।। घट्टग-डगलग-लेवो एमाइ पओयणं बहुहा ॥ [ओघनि० ३४२] अप्कायमाश्रित्यपरिसेय-पियण-हत्थाइधोयणे चीरधोयणे चेव । आयमण-भाणधुवणे एमाइ पओयणं बहुहा ॥ [ओघनि० ३४७ ] तेजस्कायं प्रतिओयण वंजण पाणग आयामुसिणोदगं च कुम्मासा ।। डगलग-सरक्ख-सूई-पिप्पलमाई य उवओगो ॥ [ओघनि० ३५९] वायुकायमभिदइएण वत्थिणा वा पओयणं होज वाउणा मुणिणो । गेलन्नम्मि वि होज्जा सचित्तमीसे परिहरेजा ॥ [ओघनि० ३६२] वनस्पतिं प्रति