________________
४८३
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । संथार-पाय-दंडग-खोमियकप्पा य पीठ-फलगाई ।
ओसह-भेसजाणि य एमाइ पओयणं तरुसु ॥ [ओघनि० ३६४] त्रसकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तम्चम्मट्ठि-दंत-नह-रोम-सिंग-अमिलाइछगण-गोमुत्ते । खीर-दहिमाइयाणं पंचेंदियतिरियपरिभोगो ॥ [ओघनि० ३६८]
एवं विकलेन्द्रिय-मनुष्य-देवानामप्युपग्रहकारिता वाच्या । तथा गणो गच्छ:, तस्य चोपग्राहिता- एक्कस्स कओ धम्मो [उप०माला० १५६-१६१] इत्यादिगाथापूगादवसेया, तथा
गुरुपरिवारो गच्छो तत्थ वसंताण निजरा विउला । विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥ [पञ्चवस्तु० ६९६] इत्यादि। तथा राजा नरपतिः, तस्य धर्मसहायकत्वं दुष्टेभ्य: साधुरक्षणाद्, उक्तं च लौकिकै:क्षुद्रलोकाकुले लोके, धर्मं कुर्युः कथं हि ते । क्षान्ता दान्ता अहन्तारश्चेद्राजा तान्न रक्षति ॥ [ ]
तथा गृहपतिः शय्यादाता, सोऽपि निश्रास्थानम्, स्थानदानेन संयमोपकारित्वात्, तदुक्तम्
धृतिस्तेन दत्ता मतिस्तेन दत्ता गतिस्तेन दत्ता सुखं तेन दत्तम् । गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो मुनिभ्यो मुदा येन दत्तो निवासः ॥ [ ] तथाजो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा ॥ [ ] इति, तथा शरीरं काय:, अस्य च धर्मोपग्राहिता स्फुटैव, यतोऽवाचिशरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः । शरीराच्छ्रवते धर्म: पर्वतात् सलिलं यथा ॥ [ ] इति ।
[सू० ४४८] पंच णिही पन्नत्ता, तंजहा- पुत्तणिही, मित्तणिही, सिप्पणिही, धणणिही, धन्नणिही ।
[टी०] श्रमणस्य निश्रास्थानान्युक्तानि, अथ लौकिकं निधिलक्षणं निश्रास्थानं पञ्चधा प्रतिपायदन्नाह- पंच निहीत्यादि सुगमम्, नवरं नितरां धीयते स्थाप्यते यस्मिन् स निधि:विशिष्टरत्न-सुवर्णादिद्रव्यभाजनम्, तत्र निधिरिव निधि: पुत्रश्चासौ निधिश्च