________________
४८४
पुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोर्निर्वाहहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तं परै:
जन्मान्तरफलं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंश्या हि परत्रेह च शर्म्मणे ॥ [ ] इति ।
तथा मित्रं सुहृत्, तच्च तन्निधिश्चेति मित्रनिधिरर्थ- कामसाधकत्वेनानन्दहेतुत्वात्,
तदुक्तम्
कुतस्तस्यास्तु राज्यश्रीः कुतस्तस्य मृगेक्षणाः ।
यस्य शूरं विनीतं च नास्ति मित्रं विचक्षणम् ? ॥ [
शिल्पं चित्रादिविज्ञानम्, तदेव निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणम्, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद्, अत्रोक्तम्–
विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रियः ।
] इति,
विद्या हि सर्वलोकस्य वशीकरणकार्म्मणम् ॥ [ तथा धननिधिः कोशः, धान्यनिधिः कोष्ठागारमिति ।
[सू० ४४९] पंचविधे सोते पन्नत्ते, तंजहा - पुढविसोते, आउसोते, तेउसोते, मंतसोते, बंभसोते ।
[टी०] अनन्तरं निधिरुक्तः, स च द्रव्यतः पुत्रादिर्भावतस्तु कुशलानुष्ठानरूपं ब्रह्म, तत् पुनः शौचतया बिभणिषुः प्रसङ्गेन शेषाण्यपि शौचान्याह -- पंचविहेत्यादि व्यक्तम्, नवरं शुचेर्भावः शौचम्, शुद्धिरित्यर्थः, तच्च द्विधा - द्रव्यतो भावतश्च, तत्राद्यं चतुष्टयं द्रव्यशौचम्, पञ्चमं तु भावशौचम्, तत्र पृथिव्या मृत्तिकया शौचं जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचम्, इह च पृथिवीशौचाभिधानेऽपि यत् परैस्तल्लक्षणमभिधीयते, यदु
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया मृदः शुद्धौ मनीषिभिः ॥ एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् ॥ [
] इति,
तदिह नाभिमतम्, गन्धाद्युपघातमात्रस्य शौचत्वेन विवक्षितत्वात्, तस्यैव च