SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४८५ युक्तियुक्तत्वात् इति १, तथा अद्भिः शौचमप्शौचं प्रक्षालनमित्यर्थः २, तेजसाऽग्निना तद्विकारेण वा भस्मना शौचं तेजःशौचम् ३, एवं मन्त्रशौचं शुचिविद्यया ४, ब्रह्म ब्रह्मचर्यादि कुशलानुष्ठानम्, तदेव शौचं ब्रह्मशौचम् ५, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतम्, तच्चेदम् सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् ॥ [ ] इति ।। [सू० ४५०] पंच ठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तंजहा- धम्मत्थिकातं, अधम्मत्थिकातं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं । एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति पासति धम्मत्थिकातं जाव परमाणुपोग्गलं । [टी०] अनन्तरं ब्रह्मशौचमुक्तम्, तच्च जीवशुद्धिरूपम्, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थ-केवलिनोरज्ञेय-ज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाहछउमत्थेत्यादि सुगमम्, नवरं छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेन धर्मास्तिकायादीन् अजानन्नपि परमाणुं जानात्येवासौ मूर्तत्वात्तस्य । अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, एवं तर्हि सङ्ख्यानियमो व्यर्थ: स्यात्, घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति, सव्वभावेणं ति च साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेण जानात्येव, जीवमशरीरप्रतिबद्धं देहमुक्तम्, परमाणुश्चासौ पुद्गलश्चेति विग्रहः, व्यणुकादीनामुपलक्षणमिदम् । [सू० ४५१] अधेलोगे णं पंच अणुत्तरा महतिमालता महाणिरया पन्नत्ता, तंजहा- काले, महाकाले, रोरुते, महारोरुते, अप्पतिट्ठाणे । उड्ढलोगे णं पंच अणुत्तरा महतिमहालता महाविमाणा पन्नत्ता, तंजहाविजये, वेजयंते, जयंते, अपराजिते, सव्वट्ठसिद्धे । [टी०] यथैतान्यतीन्द्रियाणि जिन: पञ्च जानाति तथाऽन्यदप्यतीन्द्रियं जानातीत्य
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy