________________
४८६
धोलोकोर्ध्वलोकवर्त्यतीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह- अहो इत्यादि व्यक्तम्, नवरम् अहोलोए त्ति सप्तमपृथिव्याम्, अनुत्तरा: सर्वोत्कृष्ट-वेदनादित्वात्तत: परं नरकाद्यभावाद्वा, महत्त्वं च चतुर्णां क्षेत्रतोऽप्यसङ्ख्यातयोजनत्वाद-प्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि।
[सू० ४५२] पंच पुरिसजाता पन्नत्ता, तंजहा- हिरिसत्ते, हिरिमणसत्ते, चलसत्ते, थिरसत्ते, उदतणसत्ते ।।
[टी०] कालादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाहपंच पुरिसेत्यादि, हिरिसत्ति त्ति ह्रिया लज्जया सत्त्वं परीषहेषु साधो: सङ्ग्रामादावितरस्य वा अवष्टम्भोऽविचलत्वं यस्यासौ ह्रीसत्त्वः, तथा ह्रियाऽपि मनस्येव सत्त्वं यस्य न देहे शीतादिषु कम्पादिविकारभावात् स ह्रीमनःसत्त्वः, चलं भङ्गरं सत्त्वं यस्य स तथा, एतद्विपर्ययात् स्थिरसत्त्व:, उदयनम् उदयगामि प्रवर्द्धमानं सत्त्वं यस्य स तथा। __[सू० ४५३] पंच मच्छा पन्नत्ता तंजहा- अणुसोतचारी, पडिसोतचारी, अंतचारी, मज्झचारी, सव्वचारी । एवामेव पंच भिक्खागा पन्नत्ता, तंजहाअणुसोतचारी जाव सव्वचारी ।
[टी०] अनन्तरं सत्त्वपुरुष उक्तः, स च भिक्षुरेवेति तत्स्वरूपप्रतिपादनाय दृष्टान्तदानॊन्तिकसूत्रे पंच मच्छेत्यादिके आह, तत्र मत्स्य: प्राग्वत्, भिक्षाकस्तु अनुश्रोतश्चारिवदनुश्रोतश्चारी प्रतिश्रयादारभ्य भिक्षाचारी, स च प्रथम:, प्रतिश्रोतश्चारीव प्रतिश्रोतश्चारी दूरादारभ्य प्रतिश्रयाभिमुखचारीत्यर्थः, स च द्वितीयः, अन्तचारी पार्श्वचारीति तृतीयः, शेषौ प्रतीतौ।
[सू० ४५४] पंच वणीमगा पन्नत्ता, तंजहा- अतिधिवणीमते, किविणवणीमते, माहणवणीमते, साणवणीमते समणवणीमते ।
[टी०] भिक्षाकाधिकारात्तद्विशेषं पञ्चधाऽऽह- पंचेत्यादि व्यक्तम्, किन्तु परेषामात्मदुःस्थत्वदर्शनेनानुकूलभाषणतो यल्लभ्यते द्रव्यं सा वनी प्रतीता, तां पिबति आस्वादयति पातीति वेति वनीप:, स एव वनीपको याचकः, इह तु यो यस्यातिथ्यादेर्भक्तो भवति तं तत्प्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति,