________________
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
४८७ तत्र भोजनकालोपस्थायी प्राघूर्णकोऽतिथिः, तद्दानप्रशंसनेन तद्भक्तात् यो लिप्सते सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः, तस्य दानं महाफलमिति शेष:, एवमन्येऽपि, नवरं कृपणा: रङ्कादयो दुःस्था:, उदाहरणम्किविणेसु दुम्मणेसु य अबन्धवायंकिजुंगियंगेसु। पूयाहिजे लोए दाणपडागं हरइ देंतो ॥ [निशीथभा० ४४२४]
[आयंकि त्ति रोगी, जुंगियंगो व्यङ्गितः, पूजाहार्ये पूजितपूजके] । माहना ब्राह्मणाः, तत्रोदाहरणम्
लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं पुण छक्कम्मनिरयाणं ॥ [निशीथभा० ४४२३] बंभबंधुसु त्ति जन्ममात्रेण ब्रह्मबान्धवेषु, निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणीति। श्ववनीपको यथा
अवि नाम होज सुलभो गोणाईणं तणाइ आहारो । छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं ॥ [निशीथभा० ४४२६]
श्रमणा: पञ्चधा- निर्ग्रन्था: शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथाभुंजंति चित्तकम्मट्ठिया व कारुणियदाणरुइणो य । अवि कामगद्दभेसु वि न नस्सए किं पुण जतीसु ? ॥ [निशीथभा० ४४२१] इति, एवमन्येऽपि तापसवनीपकादयो द्रष्टव्या इति । [सू० ४५५] पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तंजहा- अप्पा पडिलेहा, लाघविते पसत्थे, रूवे वेसासिते, तवे अणुनाते, विउले इंदियनिग्गहे ।
[टी०] योऽयं वनीपकः उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह- पंचहीत्यादि प्रतीतम्, नवरं न विद्यन्ते चेलानि वासांसि यस्यासावचेलकः, स च जिनकल्पिकविशेषस्तदभावादेव, तथा जिनकल्पिकविशेष: स्थविरकल्पिकश्चाल्पा-ऽल्पमूल्य-सप्रमाण-जीर्ण-मलिनवसनत्वादिति, प्रशस्त: प्रशंसितः, तीर्थकरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघो वो