________________
४८८
लाघवम्, तदेव लाघविकं द्रव्यतः, भावतोऽपि रागविषयाभावात्, प्रशस्तम् अनिन्द्यं स्यात्, तथा रूपं नेपथ्यं वैश्वासिकं विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्यादिति, तथा तप: उपकरणसंलीनतारूपमनुज्ञातं जिनानुमतं स्यात्, तथा विपुलो महानिन्द्रियनिग्रहः स्याद्, उपकरणं विना स्पर्शनप्रतिकूलशीत-वाता-ऽऽतपादिसहनादिति।
[सू० ४५६] पंच उक्कला पन्नत्ता, तंजहा- दंडुक्कले, रज्जुक्कले, तेणुक्कले देसुक्कले, सव्वुक्कले ।
[टी०] इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेव कर्तुं शक्य इत्युत्कटभेदानाह– पंचेत्यादि सुगमम्, नवरम् उक्कल त्ति उत्कटा उत्कला वा, तत्र दण्डः आज्ञा अपराधिदण्डनं वा सैन्यं वा उत्कटः प्रकृष्टो यस्य तेन वोत्कटो य: स दण्डोत्कटः, दण्डेन वोत्कलति वृद्धिं याति य स दण्डोत्कल:, इत्येवं सर्वत्र, नवरं राज्यं प्रभुता, स्तेना: चौरा:, देशो मण्डलम्, सर्वम् एतत्समुदय इति ।
[सू० ४५७] पंच समितीतो पन्नत्ताओ, तंजहा- इरियासमिती, भासासमिती, जाव पारिट्ठावणियासमिती ।
[टी०] असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समिती: प्राहपंचेत्यादि सुगमम्, नवरं सम् एकीभावेनेति: प्रवृत्ति: समिति: शोभनैकाग्रपरिणामस्य चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थः, तत्र समितिरीर्यासमिति:, उक्तं च- ईर्यासमितिर्नाम रथ-शकट-यान-वाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु युगमात्रदृष्टिना भूत्वा गमनागमनं कत्तय॑म् [आव० हारि० इति । तथा भाषणं भाषा, तस्यां समितिर्भाषासमिति:, तथा एषणमेषणा गवेषण-ग्रहण-ग्रासैषणाभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिः, उक्तं च- एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यम् [ ] इति, तथा आदानभाण्डमात्रनिक्षेपणासमिति: भाण्डमात्रे आदाननिक्षेपविषया सुन्दरचेष्टेत्यर्थः, इह चाप्रत्युपेक्षिताप्रमार्जिताद्या: सप्त भङ्गाः पूर्वोक्ता भवन्तीति, तथा उच्चार-प्रश्रवण-खेल-सिंघान-जल्लानां पारिष्ठापनिका त्यागस्तत्र समितिर्या सा तथेति, तत्रोच्चारः पुरीषम्, प्रश्रवणं मूत्रम्, खेल: श्लेष्मा, जल्लो मल:, सिंघानो नासिकोद्भव: श्लेष्मा, अत्रापि त एव सप्त भङ्गा इति ।