________________
६२८
[टी०] दीहवेयड्ड त्ति दीर्घग्रहणं वर्तुलवैताढ्यव्यवच्छेदार्थम्, गुहाष्टकयोर्यथाक्रम देवाष्टके इति, गङ्गाकुण्डानि नीलवद्वर्षधरपर्वतदक्षिणनितम्बस्थितानि षष्टियोजनायामविष्कम्भाणि मध्यवर्तिगङ्गादेवीसभवनद्वीपानि त्रिदिक्सतोरणद्वाराणि येभ्य: प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानि विभजन्त्यो भरतगङ्गावच्छीतामनुप्रविशन्तीति, एवं सिन्धुकुण्डान्यपि । अट्ठ उसभकूड त्ति अष्टौ ऋषभकूटपर्वता अष्टास्वपि विजयेषु तद्भावात् ते च वर्षधरपर्वतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्त्तिन: सर्वविजयभरतैरवतेषु भवन्ति, तत्प्रमाणं चेदम्
सव्वे वि उसभकूडा उव्विद्धा अट्ठ जोयणा होति । बारस अट्ठ य चउरो मूले मज्झुवरि वित्थिन्ना ॥ [बृहत्क्षेत्र० १९३] इति ।
देवास्तन्निवासिन एवेति, नवरमेत्थ रत्त-रत्तवईओ तासिं चेव कुंड त्ति, शीताया दक्षिणतोऽपि अष्टौ दीर्घवैताढ्या इत्यादि सर्वं समानम्, केवलं गंगा-सिन्धुस्थाने रक्तारक्तवत्यौ वाच्ये, गङ्गादिकुण्डस्थानेऽपि रक्तादिकुण्डानि वाच्यानीति, तथाहि- ‘अट्ठ रत्ताकुंडा पन्नत्ता, अट्ठ रत्तवईकुंडा, अट्ठ रत्ताओ, अट्ठ रत्तवईओ' । तथा निषधवर्षधरपर्खतोत्तरनितम्बवर्तीनि षष्टियोजनप्रमाणानि रक्ता-रक्तवतीकुण्डानि येभ्य उत्तरतोरणेन विनिर्गत्य ता: शीतामनुपतन्तीति ।
[सू० ६४०] धायइसंडदीवपुरत्थिमद्धे णं धायतिरुक्खे अट्ठ जोयणाई उर्दूउच्चत्तेणं बहमज्झदेसभाए, अट्ठ जोयणाई विक्खंभेणं, साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं पन्नत्ते । एवं धायइरुक्खातो आढवेत्ता सच्चेव जंबुद्दीववत्तव्वता भाणियव्वा जाव मंदरचूलिय त्ति । एवं पच्चत्थिमद्धे वि महाधाततिरुक्खातो आढवेत्ता जाव मंदरचूलिय त्ति । एवं पुक्खरवरदीवड्डपुरत्थिमद्धे वि पउमरुक्खाओ आढवेत्ता जाव मंदरचूलिय त्ति। एवं पुक्खरवरदीवड्वपच्चत्थिमद्धे वि महापउमरुक्खातो जाव मंदरचूलित त्ति।
[टी०] तथा धातकी-महाधातकी-पद्म-महापद्मवृक्षाः जम्बूवृक्षसमानवक्तव्याः । [सू० ६४१] जंबूदीवे दीवे मंदरे पव्वते भद्दसालवणे अट्ठ दिसाहत्थिकूडा