________________
५०२
एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति । देवनिवासाधिकारान्नक्षत्रसूत्रम् । नक्षत्रादिदेवरूपता च सत्त्वानां कर्म्मपुद्गलचयादेरिति चयादिसूत्रषट्कम् । पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्तिं यावत् सुकरा चेति । ॥ इति पञ्चस्थानकस्य तृतीय उद्देशकः ॥
इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वर श्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वर श्रीविजयदेवसूरियौवराज्ये पण्डित श्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां पञ्चस्थानकाख्यं पञ्चमममध्ययनं
समाप्तम्।