________________
५०३
अथ षष्ठमध्ययनं षट्स्थानकम् । [सू० ४७५] छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारेत्तए, तंजहासड्ढि पुरिसजाते १, सच्चे पुरिसज्जाते २, मेहावी पुरिसजाते ३, बहुस्सुते पुरिसज्जाते ४, सत्तिमं ५, अप्पाधिकरणे ६ ।
[टी०] ॐ नमः व्याख्यातं पञ्चममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव षट्स्थानकाख्यं षष्ठमारभ्यते, अस्य चायं विशेषसम्बन्ध:- इहानन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्- छहिं ठाणेहीत्यादि ।
अस्य चायमभिसम्बन्ध:, पूर्वसूत्रे ‘पञ्चगुणरूक्षाः पुद्गला अनन्ता: प्रज्ञप्ताः' [सू० ४७४] इत्युक्तम्, प्रज्ञापकाश्चैतेषामर्थतोऽर्हन्त: सूत्रतो गणधरा:, गणधराश्च यैर्गुणैर्युक्तस्यानगारस्य गणधरणार्हत्वं भवति तद्युक्ता एवेति तेषां गुणानामुपदर्शनायेदमुक्तमित्येवंसम्बन्धस्यास्य व्याख्या । संहितादिचर्चस्तु प्रतीत एव, नवरं षड्भिः स्थान: गुणविशेषैः सम्पन्नो युक्तोऽनगारो भिक्षुः अर्हति योग्यो भवति गणं गच्छं धारयितुं मर्यादायामिति गम्यते, पालयितुं वेत्यर्थः, सढि त्ति श्रद्धावत्, अश्रद्धावतो हि स्वयमेवामर्यादावर्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधरणानहत्वम्, एवं सर्वत्र भावना कार्या, पुरुषजातं पुरुषप्रकार:, इह च षड्भि: स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्म-धर्मवतोरभेदाद, अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति १, तथा सत्यं सद्भ्यो जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति २, तथा मेधावि मर्यादया धावतीत्येवंशीलमिति निरुक्तिवशात्, एवंभूतो हि गणस्य मर्यादाप्रवर्तको भवति, अथवा मेधा श्रुतग्रहणशक्तिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति ३, तथा बहु प्रभूतं श्रुतं सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्यात्, उक्तं च
सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं ।