________________
५०४
अहियाहियसंपत्तिं संसारुच्छेयणिं परमं ? ॥ [
] तथा
कह सो जयउ अगीओ कह वा कुणउ अगीयनिस्साए ।
कह वा करेउ गच्छं सबालवुड्डाउलं सो उ ॥ [ उपदेशमाला ४०८ ] इति ४ । तथा शक्तिमत् शरीर-मन्त्र-तन्त्र - परिवारादिसामर्थ्ययुक्तम्, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति ५, तथा अप्पाहिगरणे त्ति अल्पम् अविद्यमानमधिकरणं स्वपक्ष- परपक्षविषयो विग्रहो यस्य तत्तथा, तद्ध्यनुवर्त्तकतया गणस्याहानिकारकं भवतीति ६ । ग्रन्थान्तरे त्वेवं गणिनः स्वरूपमुक्तम्
सुत्तत्थे निम्माओ [पञ्चव० १३१५] इत्यादि ।
[सू० ४७६] छहिं ठाणेहिं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ, तंजहा - खित्तचित्तं दित्तचित्तं, जक्खातिट्ठ, उम्मातपत्तं, उवसग्गपत्तं, साहिकरणं ।
[टी०] अनन्तरं गणधरगुणा उक्ताः, गणधरकृतमर्यादया च वर्त्तमानो निर्ग्रन्थो नाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह - तत्र प्रथमं पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते, गृह्णन् ग्रीवादाववलम्बयन् हस्त-वस्त्राञ्चलादौ गृहीत्वा नातिक्रामत्याज्ञामिति गम्यते, क्षिप्तचित्तां शोकेन, दृप्तचित्तां हर्षेण, यक्षाविष्टां देवताधिष्ठिताम्, उन्मादप्राप्तां वातादिना, उपसर्गप्राप्तां तिर्यङ्मनुष्यादिना नीयमानाम्, साधिकरणां कलहयन्तीम् ।
[सू० ४७७] छहिं ठाणेहिं निग्गंथा निग्गंथीओ य साहम्मितं कालगतं समायरमाणा णाइक्कमंति, तंजहा - अंतोहिंतो वा बाहिं णीणेमाणा १, बाहिंहिंतो वा निब्बाहिं णीणेमाणा २, उवेहमाणा वा ३, उवासमाणा वा ४, अणुन्नवेमाणा वा ५, तुसिणीते वा संपव्वयमाणा ६ ।
[ टी० ] षड्भिः स्थानैः वक्ष्यमाणैर्निर्ग्रन्थाः साधवो निर्ग्रन्थ्यश्च साध्व्यस्तथाविधनिर्ग्रन्थाभावे मिश्राः सन्तः साधर्मिकं समानधर्म्मयुक्तं साधुमित्यर्थः समायरमाणेति समाद्रियमाणाः साधर्मिकं प्रत्यादरं कुर्वाणाः समाचरन्तो वा उत्पाटनादिव्यवहारविषयीकुर्वन्तो नातिक्रामन्त्याज्ञां स्त्रीभिः सह विहार - स्वाध्याया