________________
७०२
असुराणं नागाणं उदहिकुमाराण होंति आवासा । अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया ॥ [दीवदिसाअग्गीणं थणियकुमाराण होंति आवासा । अरुणवरे दीवम्मि उ तत्थेव य तेसि उप्पाया ॥ [द्वीपसागर० २२०-२२१] इति ।]
सक्कस्सेत्यादि, कुण्डलवरे द्वीपे कुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभ-यमप्रभ-वरुणप्रभ-वैश्रमणप्रभाख्या उत्पातपर्वता: सोमादीनां शक्रलोकपालानां भवन्ति, उत्तरपार्श्वे तु एवमेवेशानलोकपालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यत: सर्वेषामेकं प्रमाणम्, नवरं स्थानविशेषो विशेषसूत्रादवगन्तव्यः ।
[सू० ७२८] बादरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पण्णत्ता १॥
जलचरपंचेंदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्नत्ता २॥ उरपरिसप्पथलचरपंचेंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव ३॥
टी०] योजनसहस्राधिकारादेव योजनसाहसिकावगाहनासूत्रत्रयम्- बादरेत्यादि कण्ठ्यम्, नवरं बादर त्ति बादराणामेव न सूक्ष्माणां तेषामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वात्, एवं जघन्यतोऽपि मा भूदत: उक्कोसेणं त्यभिहितम्, दश योजनशतानि उत्सेधयोजनेन, न तु प्रमाणयोजनेन, उस्सेहपमाणउ मिणे देहं [बृहत्सं० ३४९] ति वचनात्, शरीरस्यावगाहना येषु प्रदेशेषु शरीरमवगाढं सा शरीरावगाहना, सा च तथाविधनद्यादिपद्मनालविषया द्रष्टव्येति । जलचरेत्यादि, इह जलचरा मत्स्याः गर्भजा इतरे च दृश्या:, मच्छजुयले सहस्सं [बृहत्सं० ३०७] ति वचनात्, एते च किल स्वयम्भूरमण एव भवन्तीति । उरेत्यादि, उर:परिसर्पा इह गर्भजा महोरगा दृश्या:, उरगेसु य गब्भजाईसु ॥ [बृहत्सं० ३०७] त्ति वचनात्, एते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, एवं चेव त्ति दस जोयणसयाई सरीरोगाहणा पत्नत्त त्ति सूत्रं वाच्यमित्यर्थः।
[सू० ७२९] संभवाओ णमरहातो अभिणंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं समुप्पन्ने ।