________________
दशममध्ययनं दशस्थानकम् ।
७०१ [स च रत्नमय: पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः, तस्य च मध्येऽशोकावतंसको देवप्रासाद इति ।]
चमरस्सेत्यादि, महारनो त्ति लोकपालस्य सोमप्रभ उत्पातपर्वत: अरुणोदसमुद्र एव भवति, एवं यम-वरुण-वैश्रमणसूत्राणि नेयानीति । बलिस्सेत्यादि, रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्रे एव भवति ।
बलिस्सेत्यादि, वतीत्यादि सूत्रसूचा, एवं च दृश्यं वइरोयणिंदस्स वइरोयणरन्नो सोमस्स य महारन्नो एवं चेव त्ति अतिदेश:, एतद्भावना- जहेत्यादि, यथा यत्प्रकार चमरस्य लोकपालानामुत्पातपर्वतप्रमाणं प्रत्येकं चतुर्भि: सूत्रैरुक्तं तं चेव त्ति तत्प्रकारमेव चतुर्भि: सूत्रैः बलिनोऽपि वैरोचनेन्द्रस्यापि वक्तव्यम्, समानत्वादिति । ___धरणस्सेत्यादि, धरणस्योत्पातपर्वतोऽरुण एव समुद्रे भवति, धरणस्सेत्यादि प्रथमलोकपालसूत्रे एवं चेव त्ति करणात् उच्चत्तेणं दस गाउयसयाई उव्वेहेणमित्यादि सूत्रमतिदिष्टम् । एवं जाव संखवालस्स त्ति करणात् शेषाणां त्रयाणां लोकपालानां कालवाल-सेलवाल-संखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति । एवं भूयाणंदस्स वि त्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यम्, यथा धरणस्येत्यर्थः, भूतानन्द-प्रभश्चोत्पातपर्वतोऽरुणोद एव भवति, केवलमुत्तरत:, एवं लोगपालाण वि से त्ति से तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वतप्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतु:स्थानकानुसारेण ज्ञातव्यानीति, जहा धरणस्सेति यथा धरणस्य । एवमिति तथा [सुपर्ण]विद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणं भणितव्यम्, किंपर्यन्तानां तेषामित्यत आह– जाव थणियकुमाराणं ति प्रकटम्, किमिन्द्राणामेव ? नेत्याह-सलोगपालाणं ति, तल्लोकपालानामपीत्यर्थः, सव्वेसिमित्यादि, सर्वेषामिन्द्राणां तल्लोकपालानां चोत्पातपर्वता: सदृग्नामानो भणितव्याः, यथा धरणस्य धरणप्रभ:, प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वता: स्थानमङ्गीकृत्यैवं भवन्ति