________________
दशममध्ययनं दशस्थानकम् ।
७०३
[टी०] एवंविधाश्चार्था जिनैर्दर्शिता इति प्रकृताध्ययनावतारि जिनान्तरसूत्रं संभवेत्यादि सुगमम् ।
[सू० ७३०] दसविहे अणंतते पण्णत्ते, तंजहा-णामाणंतते, ठवणाणंतते, दव्वाणंतते, गणणाणंतते, पएसाणंतते, एगतोणंतते, दुहतोणंतते, देसवित्थाराणंतते, सव्ववित्थाराणंतते, सासताणंतते ।
[टी०] अभिहितप्रमाणाश्चावगाहनादयोऽन्येऽपि पदार्था जिनैरनन्ता दृष्टा इत्यनन्तकं भेदत आह– दसविहेत्यादि, नामानन्तकम् अनन्तकमित्येषा नामभूता वर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तकम्, स्थापनानन्तकं यदक्षादावनन्तकमिति स्थाप्यते, द्रव्यानन्तकं जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तत्वम्, गणनानन्तकं यदेको द्वौ त्रय इत्येवं सङ्ख्याता असङ्ख्याता अनन्ता इति, प्रदेशानन्तकम् आकाशप्रदेशानां यदानन्त्यमिति, एकतोऽनन्तकमतीताद्धा अनागताद्धा वा, द्विधाऽनन्तकं सर्वाद्धा, देशविस्तारानन्तकम् एक आकाशप्रतर:, सर्वविस्तारानन्तकं सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्रव्यमिति ।
[सू० ७३१] उप्पायपुव्वस्स णं दस वत्थू पण्णत्ता १। अत्थिणत्थिप्पवातपुव्वस्स णं दस चूलवत्थू पण्णत्ता २॥
[टी०] एवंविधार्थाभिधायकं पूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाहउप्पायेत्यादि, उत्पादपूर्वं प्रथमं तस्य दश वस्तूनि अध्यायविशेषाः, अस्तिनास्तिप्रवादपूर्वं चतुर्थं तस्य मूलवस्तूनामुपरि चूलारूपाणि वस्तूनि चूलावस्तूनि।
[सू० ७३२] दसविधा पडिसेवणा पण्णत्ता, तंजहादप्प-प्पमाद-ऽणाभोगे, आउरे आवतीसु त । संकिते सहसक्कारे, भय प्पयोसा य वीमंसा ॥१५४॥ दस आलोयणादोसा पण्णत्ता, तंजहाआकंपइत्ता अणुमाणइत्ता, जं दिटुं बायरं व सुहुमं वा । छन्नं सद्दाउलगं, बहुजण अव्वत्त तस्सेवी ॥१५५॥ दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, तंजहा