SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ७०४ जातिसंपन्ने, कुलसंपन्ने, एवं जधा अट्ठट्ठाणे जाव खंते, दंते, अमाती, अपच्छाणुतावी । दसहि ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तते, तंजहाआयारवं, आहारवं जाव अवातदंसी, पितधम्मे, दढधम्मे । [टी०] पूर्वगतादिश्रुतनिषिद्धवस्तूनां साधोर्यद्विधा प्रतिषेवा भवति तद्विधां तां दर्शयन्नाह- दसविहेत्यादि, प्रतिषेवणा प्राणातिपाताद्यासेवनम् । दप्प सिलोगो, दो वल्गनादिः, दप्पो पुण होइ वग्गणाईओ [ ] इति वचनात्, तस्मादागमप्रतिषिद्धप्राणातिपाताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः परिहास-विकथादिः, कंदप्पाइ पमाओ [ ] इति वचनाद्, विधेयेष्वप्रयत्नो वा, अनाभोगो विस्मृति:, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे ग्लाने सति तत्प्रतिजागरणार्थमिति भावः, अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वात्, अयमर्थ:- क्षुत्-पिपासा-व्याधिभिरभिभूत: सन् यां करोति, उक्तं च– पढमबीयहुओ वाहिओ व जं सेव आउरा एसा [ ] इति, तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यत: प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दुर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च- दव्वाइअलंभे पुण चउव्विहा आवया होइ [ ] इति, तथा शङ्किते एषणीयेऽप्यनेषणीयतया, जं संके तं समावजे [ ] इति वचनात्, सहसाकारे अकस्मात् करणे सति, सहसाकारलक्षणं चेदम् पुव्वं अपासिऊणं पाए छूढम्मि जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥ [निशीथभा० ९७] ति । भयं च भीति: नृप-चौरादिभ्य: प्रद्वेषश्च मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं चभयमभिउग्गेण सीहमाई व [ ] त्ति, इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह चकोहाईओ पओसो [ ] त्ति, तथा विमर्श: शिक्षकादिपरीक्षा, आह च- वीमंसा सेहमाईणं [ ] ति, ततोऽपि प्रतिषेवा पृथिव्यादिसङ्घट्टादिरूपा भवतीति । प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते परिहार्या इति दर्शनायाह
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy