________________
दशममध्ययनं दशस्थानकम् ।
७०५
दसेत्यादि, आकंप गाहा, आकम्प्य आवयेत्यर्थः, यदुक्तम्वेयावच्चाईहिं पुव्वं आगंपइत्तु आयरिए। आलोएइ कहं मे थोवं वियरिज पच्छित्तं ? ॥ [ ] ति । अणुमाणइत्ता अनुमानं कृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः, अयमभिप्रायोऽस्य- यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति । जं दिळं ति यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यत्, दोषश्चायम्, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति । बायरं व त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, सुहमं व त्ति सूक्ष्ममेव वाऽतिचारमालोचयति, य: किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति । छण्णं ति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः । सद्दाउलयं ति शब्देनाकुलं शब्दाकुलं बृहच्छब्दम्, तथा महता शब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते शृण्वन्तीति । बहुजणं ति बहवो जना आलोचनाचार्या: यस्मिन्नालोचने तद् बहुजनम्, अयमभिप्राय:
एक्कस्सालोएत्ता जो आलोए पुणो वि अन्नस्स । ते चेव य अवराहे तं होइ बहुजणं नाम ॥ [ ] त्ति ।।
अव्वत्तं ति अव्यक्तस्य अगीतार्थस्य गुरोः सकाशे यदालोचनं तत् तत्सम्बन्धादव्यक्तमुच्यते । तस्सेवि त्ति ये दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालोचनं स तत्सेविलक्षण आलोचनादोषः, तत्र चायमभिप्राय: आलोचयितु:
जह एसो मत्तुल्लो न दाही गुरुगमेव पच्छित्तं । इय जो किलिट्ठचित्तो दिन्ना आलोयणा तेणं ॥ [ ] ति ।
एतद्दोषपरिहारिणाऽपि गुणवतैवालोचना देयेति तद्गुणानाह– दसहि ठाणेहीत्यादि, एवं ति अनेन क्रमेण यथाऽष्टस्थानके तथा इदं सूत्रं पठनीयमित्यर्थः, कियद्दरम् ? यावत् खंते दंते त्ति पदे, तथाहि-विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरणसंपन्ने त्ति, अमायी अपच्छाणुतावीति पदद्वयमिहाधिकं प्रकटं च, नवरं ग्रन्थान्तरोक्तं तत्स्वरूपमिदम्- नो पलिउंचे अमायी अपच्छयावी न परितप्पे [ ] त्ति ।
एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह