________________
५२१
षष्ठमध्ययनं षट्स्थानकम् । वेति, बहु ति शय्यायां ह्युपविशन् पुमांस्तत्रस्थयोषित्- पुष्प-चन्दन-वस्त्रादिस्पर्शं बहुं भिन्नजातीयं सन्तमेकैकं भेदेनावबुध्यते- अयं योषित्स्पर्श इत्यादि, बहुविहं ति बढ्यो विधा भेदा यस्य स बहुविधस्तं योषिदादिस्पर्शमेकैकं शीत-स्निग्ध-मृदुकठिनादिरूपमवगृह्णातीति, धुवं ति ध्रुवमत्यन्तं सर्वदैवेत्यर्थः, यदा यदा अस्य तेन स्पर्शेन योषिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवतिसतीन्द्रिये सति चोपयोगे यदाऽसौ विषय: स्पृष्टो भवति तदा तमवगृह्णात्येवेति, अणिस्सियं ति निश्रितो लिङ्गप्रमितोऽभिधीयते, यथा यूथिकाकुसुमानामत्यन्तं शीतमृदु-स्निग्धादिरूप: प्राक् स्पर्शोऽनुभूत: तेनानुमानेन लिङ्गेन तं विषयमपरिच्छिन्दत् यदा ज्ञानं प्रवर्त्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, असंदिद्धं ति असंदिग्धं निश्चितं सकलसंशयादिदोषरहितमिति, यथा तमेव योषिदादिस्पर्शमवगृह्णत् योषित एवायं चन्दनस्यैवायमित्येवमवगृह्णातीति । एवमीहा-ऽपाय-धारणामतीनां षड्विधत्वम्, नवरं धारणायां क्षिप्र-ध्रुवपदे परित्यज्य पुराण-दुर्द्धरपदाभ्यां सह षड्विधत्वमुक्तम्, तत्र च पुराणं बहुकालीनं दुर्द्धरं गहनं चित्रादीति, क्षिप्र-बहु-बहुविधादिपदषट्कविपर्ययेणापि षड्विधा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेादशभिर्गुणनात् त्रीणि शतानि षटत्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण
जं बहु १ बहुविह २ खिप्पा ३ ऽणिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना । पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं ॥ [विशेषाव० ३०७ ] इत्यादि। [सू० ५११] छव्विधे बाहिरते तवे पन्नत्ते, तंजहा-अणसणं, ओमोदरिता, भिक्खातरिता, रसपरिच्चाते, कायकिलेसो, पडिसंलीणता ।
छव्विधे अन्भंतरते तवे पन्नत्ते, तंजहा-पायच्छित्तं, विणओ, वेयावच्चं, सज्झाओ, झाणं, विउसग्गो ।
[टी०] अनन्तरं मतिरुक्ता, तद्विशेषवन्तश्च तपस्यन्तीति तपोऽभिधानाय सूत्रद्वयम्छव्विहेत्यादि गतार्थमेतत्, तथापि किञ्चिदुच्यते, बाहिरए तवे त्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपस्तया ज्ञायमानत्वात् प्रायो बहि: शरीरस्य तापकत्वाद्वा तपति दुनोति शरीरकर्माणि यत्तत्तप इति, तत्राऽनशनम् अभोजनमाहारत्याग इत्यर्थः, तद् द्विधा