________________
५२०
साहस्सीओ पण्णत्तातो, एवं भूताणंदस्स वि जाव महाघोसस्स ।
[टी०] इयं च प्रमादाप्रमादप्रत्युपेक्षा लेश्याविशेषतो भवतीति लेश्यासूत्रम्, सुगमम्, लेश्याधिकारादेव पञ्चेन्द्रियतिर्यग्मनुष्यदेवलेश्यासूत्राणि, देवप्रत्यासत्त्या सक्केत्यादिकान्यग्रमहिष्यादिसूत्राणि चावग्रहमतिसूत्रादर्वाग्वर्तीनि, कण्ठ्यानि च, नवरं देवानां जात्यपेक्षया अवस्थितरूपा: षट् लेश्या अवगन्तव्या इति । - [सू० ५१०] छव्विहा उग्गहमती पन्नत्ता, तंजहा-खिप्पमोगिण्हति, बहुमोगिण्हति, बहुविधमोगिण्हति, धुवमोगिण्हति, अणिस्सियमोगिण्हति, असंदिद्धमोगिण्हति ।।
छव्विहा ईहामती पन्नत्ता, तंजहा-खिप्पमीहति, बहुमीहति जाव असंदिद्धमीहति । छव्विधा अवायमती पन्नत्ता, तंजहा-खिप्पमवेति जाव असंदिद्धं अवेति।
छव्विधा धारणा पत्नत्ता, तंजहा-बहुं धरेति, बहुविधं धरेति, पोराणं धरेति, दुद्धरं धरेति, अणिस्सितं धरेति, असंदिद्धं धरेति ।
[टी०] अनन्तरं देववक्तव्यतोक्ता, देवाश्च भवप्रत्ययादेव विशिष्टमतिमन्तो भवन्तीति मतिभेदान् सूत्रचतुष्टयेनाह– छव्विहा उग्गहेत्यादि, मति: आभिनिबोधिकम्, सा चतुर्विधा, अवग्रहेहापाय-धारणाभेदात्, तत्रावग्रहः प्रथमं सामान्यार्थग्रहणम्, तद्रूपा मतिरवग्रहमति:, इयं च द्विविधा व्यञ्जनावग्रहमतिरावग्रहमतिश्च, तत्रार्थावग्रहमतिर्द्विधानिश्चयतो व्यवहारतश्च, तत्र व्यञ्जनावग्रहोत्तरकालमेकसामयिकी प्रथमा, द्वितीया त्वन्तर्मुहूर्तप्रमाणा अवायरूपा अपि सा ईहापाययोरुत्तरयोः कारणत्वादवग्रहमतिरित्युपचरितेति, यत आह
सामन्नमेत्तगहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ सो पुण ईहावायावेक्खाउऽवग्गहो त्ति उवयरिओ। एस विसेसावेक्खं सामन्नं गेण्हए जेण ॥ [विशेषाव० २८२-२८३] इत्यादि। तत्र व्यवहारावग्रहमतिमाश्रित्य प्राय: षड्विधत्वं व्याख्येयमिति, तद्यथाक्षिप्रमवगृह्णाति तूल्यादिस्पर्श क्षयोपशमपटुत्वादचिरेणैव वेत्ति मतिस्तद्विशिष्ट: पुरुषो