SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ५५२ पोतं वस्त्रं तद्वज्जाता: पोतादिव वा बोहित्थाजाता:, अजरायुवेष्टिता इत्यर्थः, पोतजाः हस्ति-वल्गुलीप्रभृतयः, जरायौ गर्भवेष्टने जाता:, तद्वेष्टिता इत्यर्थः, जरायुजाः मनुष्या गवादयश्च, रसे तीमन-काञ्जिकादौ जाता रसजा:, संस्वेदाज्जाता: संस्वेदजा: यूकादय:, सम्मूर्छन निर्वृत्ताः सम्मूर्छिमा: कृम्यादयः, उद्भिदो भूमिभेदाजाता उद्भिजाः खञ्जनकादय:। अथाण्डजादीनामेव गत्यागतिप्रतिपादयन् अंडजेत्यादि सूत्रसप्तकम्, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः, सप्तभ्य एवाण्डजादियोनिभ्य आगति: उत्पत्तिर्येषां ते सप्तागतयः । एवं चेव त्ति यथाऽण्डजानां सप्तविधे गत्यागती भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या जाव उब्भिय त्ति सप्तमसूत्रं यावदिति, शेषं सुगमम् ।। _[सू० ५४४] आयरियउवज्झायस्स णं गणंसि सत्त संगहट्ठाणा पन्नत्ता, तंजहा-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति १, एवं जधा पंचट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति ५, आयरियउवज्झाए गणंसि अणुप्पन्नाइं उवकरणाई सम्मं उप्पाइत्ता भवति ६, आयरियउवज्झाए गणंसि पुव्वुप्पन्नाइं उवकरणाइं सम्मं सारक्खित्ता संगोवित्ता भवति, णो असम्म सारक्खित्ता संगोवित्ता भवति ७ । __ आयरियउवज्झायस्स णं गणंसि सत्त असंगहट्ठाणा पन्नत्ता, तंजहाआयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति १, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति ७ । [टी०] पूर्वं योनिसङ्ग्रह उक्त इति सङ्ग्रहप्रस्तावात् सङ्ग्रहसूत्रम्- आयरियेत्यादि, आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा गणे गच्छे सङ्ग्रहो ज्ञानादीनां शिष्याणां वा तस्य स्थानानि हेतवः सङ्ग्रहस्थानानि, आचार्योपाध्यायो गणे आज्ञां वा विधिविषयमादेशं धारणां वा निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रह: शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तभ्रंश एवेति
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy