________________
सप्तममध्ययनं सप्तस्थानकम् ।
प्रतीतम्, यत:
जहि नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि।
सो उ अगच्छो गच्छो मोत्तव्वो संजमत्थीहिं ॥ [बृहत्कल्प० ४४६४] ति । __ एवं जहा पंचठाणे त्ति, तच्चेदम्- 'आयरियउवज्झाए णं गणंसि अहाराइणियाए कितिकम्मं पउंजित्ता भवइ २, आयरियउवज्झाए णं गणंसि जे सुयपज्जवजाते धारेइ ते काले काले सम्म अणुप्पवाइत्ता भवइ ३, आयरिउवज्झाए णं गणंसि गिलाणसेहवेयावच्चं सम्मं अब्भुट्टित्ता भवइ ४, आयरियउवज्झाए णं गणंसि आपुच्छियचारी यावि भवइ, नो अणापुच्छियचारी ५,' स्थानद्वयं त्विहैवेति, व्याख्या सुकरैव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम्सीसे जइ आमंते पडिच्छगा तेण बाहिरं भावं । अह इयरे तो सीसा ते वि समत्तम्मि गच्छंति ॥ तरुणा बाहिरभावं न य पडिलेहोवही ण कीकम्मं । मूलगपत्तसरिसगा परिभूया वच्चिमो थेरा ॥ [बृहत्कल्प० १४५७-५८] इति । तथा अणुप्पन्नाई ति अनुत्पन्नानि अलब्धानि उपकरणानि वस्त्र-पात्रादीनि सम्यग् एषणाविशुद्ध्या उत्पादयिता सम्पादनशीलो भवति । संरक्षयिता उपायेन चौरादिभ्यः, सङगोपयिता अल्पसागारिककरणेन मलिनतारक्षणेन वेति । एवं सङ्ग्रहस्थानविपर्ययभूतमसङ्ग्रहसूत्रमपि भावनीयमिति । [सू० ५४५] सत्त पिंडेसणाओ पन्नत्ताओ १। सत्त पाणेसणातो पण्णत्ताओ २। सत्त उग्गहपडिमातो पन्नत्ताओ ३॥ सत्त सत्तिक्कया पण्णत्ता ४। सत्त महज्झयणा पण्णत्ता ५।
सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णत्ताते रातिदिएहिमेगेण य छण्णउतेणं भिक्खासतेणं अहासुत्तं जाव आराहिया वि भवति ६।
[टी०] अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैषणादिविषयेति पिण्डैषणादिसूत्रषट्कम्- सत्त पिंडेसणाउ त्ति, पिण्डः समयभाषया भक्तं तस्यैषणा ग्रहणप्रकाराः पिण्डैषणा:, ताश्चैता: