________________
५५४
संसट्ठ १ मसंसट्ठा २ उद्धड ३ तह अप्पलेविया चेव ४ । उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा य ७ सत्तमिया ॥ [ ]
अत्रासंसृष्टा हस्त-मात्राभ्यां चिन्तनीया ‘असंसट्टे हत्थे असंसट्टे मत्ते', अखरडिय त्ति वुत्तं भवइ, एवं गृह्णत: प्रथमा भवति, [गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः।] तथा संसृष्टा ताभ्यामेव खरंटिताभ्यामेव द्वितीया । उद्धृता नाम स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतम्, ततो असंसढे हत्थे असंसढे मत्ते संसट्टे वा मत्ते संसढे हत्थे, एवं गृह्णतः तृतीया। अल्पलेपा नाम अल्पशब्दोऽभाववाचकः, निर्लेप पृथुकादि गृह्णतश्चतुर्थी । अवगृहीता नाम भोजनकाले शरावादिषूपहतमेव भोजनजातं यत् ततो गृह्णत: पञ्चमी। प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद् गृह्णत इति षष्ठी । उज्झितधा नाम यत् परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमीति । पानैषणा एता एव, नवरं चतुर्थ्यां नानात्वम्, तत्र ह्यायाम-सौवीरकादि निर्लेपं विज्ञेयमिति ।
उग्गहपडिम त्ति अवगृह्यत इत्यवग्रहो वसतिः, तत्प्रतिमा: अभिग्रहा अवग्रहप्रतिमाः, तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा गृह्णत: प्रथमा । तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथाअहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते सति वत्स्यामीति तस्य द्वितीया । प्रथमा सामान्येन, इयं तु गच्छान्तर्गतानां सम्भोगिकानामसम्भोगिकानां चोद्युक्तविहारिणाम्, यतस्तेऽन्योन्यार्थं याचन्त इति । तृतीया त्वियम्अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा त्वहालन्दिकानाम्, यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्त: आचार्यार्थं तां याचन्त इति । चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वि-त्रि-चतुः-पञ्चानामिति, इयं तु जिनकल्पिकस्येति । षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत् कटादिसंस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्ण उपविष्टो वा रजनीं गमिष्यामीत्येषाऽपि जिनकल्पिकादेरिति । सप्तमी एषैव पूर्वोक्ता,