________________
सप्तममध्ययन सप्तस्थानकम् ।
५५५ नवरं यथाऽऽस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति । अयं च सूत्रत्रयार्थः क्वचित् सूत्रपुस्तक एव दृश्यत इति ।
सत्त सत्तिक्कय त्ति अनुद्देशकतयैकसरत्वेन एकका: अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपाः, ते च समुदायत: सप्तेति कृत्वा सप्तैकका अभिधीयन्ते, तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते, तथैवनामत्वात्, एवं च ते सप्तेति, तत्र प्रथम: स्थानसप्तैककः, द्वितीयो नैषेधिकीसप्तैककः, तृतीय उच्चार-प्रश्रवणविधिसप्तैककः, चतुर्थ: शब्दसप्तैककः, पञ्चमो रूपसप्तैककः, षष्ठ: परक्रियासप्तैककः, सप्तमोऽन्योन्यक्रियासप्तैकक इति ।
सत्त महज्झयण त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति प्रथमश्रुतस्कन्धाध्ययनेभ्य: सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च पुण्डरीकम् १, क्रियास्थानम् २, आहारपरिज्ञा ३, प्रत्याख्यानक्रिया ४, अनाचारश्रुतम् ५, आर्द्रककुमारीयम् ६, नालन्दीयम् ७ चेति । ___ सत्तसत्तमिय त्ति सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिर्यावत् सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा साध्वभिग्रहविशेष:, सा चैकोनपञ्चाशता रात्रिन्दिवैः अहोरात्रैर्भवति, यत: सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च षण्णवत्यधिकेन भिक्षाशतेन, यत: प्रथमे सप्तके सप्तैव, द्वितीयादिषु तद्विगुणाद्या: यावत् सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिता: शतं षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैता:, पानकभिक्षा अप्येतावत्यो न चेह गणिता इति, एतत्स्वरूपमेवं निर्युक्त्यादे यं। ____ अहासुत्तं ति यथासूत्रं सूत्रानतिक्रमेण, यावत्करणात् अहाअत्थं यथार्थं निर्युक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, अहातच्चं यथातत्त्वं सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेण, अन्वर्थसत्यापनेनेत्यर्थः, अहामग्गं मार्गः क्षायोपशमिको भावस्तदनतिक्रमेण, औदयिकभावागमनेनेत्यर्थः, अहाकप्पं यथाकल्पं कल्पनीयानतिक्रमेण प्रतिमासमाचारानतिक्रमेण वा, सम्मं काएणं कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः,