________________
सप्तममध्ययनं सप्तस्थानकम् ।
देवेषु दर्शनाद्रूपवानेव जीव इत्यध्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति ६ । सुहुमेत्यादि सूक्ष्मेण मन्देन, न तु सूक्ष्मनामकर्मोदयवर्त्तिना, तस्य वस्तुचलनासमर्थत्वात्, फुडं ति स्पृष्टं पुद्गलकायं पुद्गलराशिम् एयंतं ति एजमानं कम्पमानं व्येजमानं विशेषेण कम्पमानं चलन्तं स्वस्थानादन्यत्र गच्छन्तं क्षुभ्यन्तम् अधो निमज्जन्तं स्पन्दन्तम् ईषच्चलन्तं घट्टयन्तं वस्त्वन्तरं स्पृशन्तमुदीरयन्तं प्रेरयन्तं तं तमनाख्येयमनेकविधं भावं पर्यायं परिणमन्तं गच्छन्तम् । सव्वमिणं ति सर्वमिदं चलत् पुद्गलजातं जीवाः स्पन्दनलक्षणजीवधर्म्मोपेतत्वात् यच्च चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहु: तन्मिथ्येति तदध्यवसाय इति, तस्स णं ति तस्य विभङ्गज्ञानवतः इमे त्ति वक्ष्यमाणाः, न सम्यगुपगता: अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तद्यथा- पृथिव्यप्तेजोवायवः, चलन- दोहदादिधर्म्मवतां त्रसानामेव दोहदादित्रसधर्म्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात्, पृथिव्यादीनां तु वायुचलनेन स्वतश्चलनेन च त्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाच्चेति । इच्चेएहिं ति इि हेतोरेतेषु चतुर्षु जीवनिकायेषु मिथ्यात्वपूर्वो दण्डो हिंसा मिथ्यादण्डस्तं प्रवर्त्तयति, तद्रूपानभिज्ञः संस्तान् हिनस्ति निह्नुते चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७ ।
५५१
[सू० ५४३] सत्तविधे जोणिसंगहे पन्नत्ते, तंजहा- अंडजा, पोतजा, जराउजा, रसजा, संसेदगा, संमुच्छिमा, उब्भिगा ।
अंडगा सत्तगतिता सत्तागतिता पन्नत्ता, तंजहा - अंडगे अंडगेसु उववज्जमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उब्भिएहिंतो वा उववज्जेज्जा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उब्भियत्ताते वा गच्छेज्जा ।
पोतगा सत्तगतिता सत्तागतिता, एवं चेव सत्तण्ह वि गतिरागती भाणियव्वा जाव उभयति ।
[टी०] मिथ्यादण्डं प्रवर्त्तयतीत्युक्तम्, दण्डश्च जीवेषु भवतीति योनिसङ्ग्रहतो जीवानाह— सत्तविहेत्ति, योनिभिः उत्पत्तिस्थानविशेषैर्जीवानां सङ्ग्रहः योनिसङ्ग्रहः, स च सप्तधा, योनिभेदात् सप्तधा जीवभेदा इत्यर्थः, अण्डजाः पक्षि- मत्स्य - सर्पादयः,