________________
५५०
ज्ञानदर्शनम्, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह- एकदिशि लोकाभिगम इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, सन्ति विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते चैवमाहुः- अन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वात्, ये ते एवमाहुः यदुत- पञ्चस्वपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथमं विभङ्गज्ञानमिति १। अथापरं द्वितीयम्, तत्र पाईणं वेत्यादौ वाशब्दश्चकारार्थो द्रष्टव्यः, विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथा च प्रथम-द्वितीययोर्विभङ्गयो/दो न स्यादिति, क्वचिद् वाशब्दा न दृश्यन्त एवेति २ । प्राणानतिपातयमानानित्यादिषु जीवानिति गम्यते, नो किरियावरणे त्ति अपि तु कर्मावरण इति ३ । देवामेव त्ति देवानेव भवनवास्यादीनेव बाहिरब्भंतरे त्ति बाह्यान् शरीरावगाहक्षेत्राद् अभ्यन्तरान् अवगाहक्षेत्रस्थान् पुद्गलान् वैक्रियवर्गणारूपान् पर्यादाय परि समन्तात् वैक्रियसमुद्घातेनाऽऽदाय गृहीत्वा, पुढेगत्तं ति पृथक्काल-देशभेदेन कदाचित् क्वचिदित्यर्थः, एकत्वम् एकरूपत्वं नानात्वं नानारूपत्वं विकृत्य उत्तरवैक्रियतया चितॄत्तए त्ति स्थातुम् आसितुं प्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह- फुसित्ता तानेव पुद्गलान् स्पृष्ट्वा, तथाऽऽत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा, तथा स्फुटित्वा प्रकाशीभूय, पुद्गलान् वा स्फोटयित्वा, किमुक्तं भवति ? विकुळ वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भवति इति विकल्पो जायते, मुदग्गे त्ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति ४ । अथापरं पञ्चमम्, तत्र बाह्याभ्यन्तरान् पुद्गलान् अपर्यादायेत्यत्र निषेधस्य वैक्रियसमुद्घातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूत्पत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गुल्याद्यवयवापेक्षया वा विकुळ स्थातुं प्रवृत्तानित्यादि, शेषं प्राग्वत्, बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किल न भवत इति भवधारणीयमिहाधिकृतम्, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति– अमुदग्गे त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इति ५ । रूविं जीवे त्ति पुद्गलानां पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य