________________
सप्तममध्ययनं सप्तस्थानकम् ।
५४९
[टी०] एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह- सत्तविहेत्यादि, सप्तविधं सप्तप्रकार विरुद्धो वितथो वा अयथा वस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितावधिरित्यर्थः, एगदिसिं ति एकस्यां दिशि, एकया दिशा पूर्वादिकयेत्यर्थः, लोकाभिगमो लोकावबोध इत्येकं विभङ्गज्ञानम्, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति १ । तथा पञ्चसु दिक्षु लोकाभिगमो नैकस्यां दिशीति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २ । क्रियामात्रस्यैव प्राणातिपातादेर्जीवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्मणश्चादर्शनात् क्रियैवावरणं कर्म यस्य स क्रियावरण:, कोऽसौ? जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयम्, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति ३ । मुयग्गे त्ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थम् ४ । अमुदग्गे जीवे त्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनाद् अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्यवसायवत् पञ्चमम् ५ । तथा रूवी जीवे त्ति देवानां वैक्रियशरीरवतां दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६ । तथा सव्वमिणं जीव त्ति वायुना चलत: पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं निश्चयवत् सप्तममिति सङ्ग्रहवचनमेतत् ७ ।
तत्थेत्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव, नवरं तत्थ त्ति तेषु सप्तसु मध्ये जया णं ति यस्मिन् काले से णं ति इह तदेति गम्यते स विभंगी पासइ त्ति उपलक्षणत्वाज्जानातीति च, अन्यथा ज्ञानत्वं विभङ्गस्य न स्यादिति, पाईणं वेत्यादौ वा विकल्पार्थः, उड्ढं जाव सोहम्मो कप्पो इत्यनेन सौधर्मात् परतः किल प्रायो बालतपस्विनो न पश्यन्तीति दर्शितम्, तथाऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितम्, दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति, एवं भवइ त्ति एवंविधो विकल्पो भवति, यदुत- अस्ति मे अतिशेषं शेषाण्यतिक्रान्तं सातिशयमित्यर्थो ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं