________________
सप्तममध्ययनं सप्तस्थानकम् ।
ऽष्टसामयिकः शेषास्त्वसङ्ख्यातसामयिका इति ।
चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह-मणुस्साणं सत्तेत्यादि, एवं चेव त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति ।
[सू० ५८७] समणस्स णं भगवतो महावीरस्स तित्थंसि सत्त पवतणनिण्हगा पन्नत्ता, तंजहा-बहुरता, जीवपतेसिता, अव्वत्तिता, सामुच्छेइता, दोकिरिता, तेरासिता, अबद्धिता १ ।
एतेसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता होत्था, तंजहाजमाली, तीसगुत्ते, आसाढे, आसमित्ते, गंगे, छलुए, गोट्ठामाहिले २ । एतेसि णं सत्तण्हं पवयणनिहगाणं सत्त उप्पत्तिनगरा होत्था, तंजहासावत्थी, उसभपुरं, सेतविता, मिहिल, उल्लुगातीरं । पुरिमंतरंजि, दसपुर, णिण्हगउप्पत्तिनगराइं ॥८६॥ ३ । [टी०] एतच्च समुद्घातादिकं जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह- सुगमं सर्वम्, नवरं प्रवचनम् आगमं निह्ववते अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिह्नवा: प्रज्ञप्ता जिनैः । तत्र बहुरय त्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्ते: प्रभूतसमयैश्चोत्पत्तेः बहुषु समयेषु रता: सक्ता बहुरता:, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः । तथा जीव: प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रदेशिकाः, चरमप्रदेशजीवप्ररूपिण इति हृदयम् । तथा अव्यक्तम् अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना। तथा समुच्छेदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो विनाश:, समुच्छेदं ब्रुवत इति सामुच्छेदिका:, क्षणक्षयिकभावप्ररूपका इत्यर्थः । तथा द्वे क्रिये समुदिते द्विक्रियम्, तदधीयते तद्वेदिनो वा द्वैक्रिया:, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, तथा जीवा-ऽजीव-नोजीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि, तत् प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः । तथा स्पृष्टं जीवेन कर्म न स्कन्धबन्धवद्वद्धमबद्धम्, तदेषामस्तीत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम्। धम्मायरिय त्ति धर्मः उक्तप्ररूपणादिलक्षण: