________________
५८८
कालज्ञता अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता आनुकूल्यमिति ।
[सू० ५८६] सत्त समुग्धाता पन्नत्ता, तंजहा-वेदणासमुग्धाते, कसायसमुग्धाते, मारणंतियसमुग्घाते, वेउव्वियसमुग्धाते, तेजससमुग्धाते, आहारसमुग्धाते केवलिसमुग्घाते ।
मणुस्साणं सत्त समुग्घाता एवं चेव । [टी०] विनयात् कर्मघातो भवति, स च समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह- सत्त समुग्घायेत्यादि, हन् हिंसागत्योः [पा० धा० १०१२], हननं घात:, समित्येकीभावे, उत् प्राबल्ये, तत एकीभावेन प्राबल्येन च घातो निर्जरा समुद्घात:, कस्य केन सहै कीभावगमनम् ?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मा वेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन घात: कथम् ?, यस्माद्वेदनीयादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशै: सह संश्लिष्टान् शातयतीत्यर्थः, उक्तं च-पुव्वकयकम्मसडणं तु निजरा [मूलाचारे ४४५] इति । स च वेदनादिभेदेन सप्तधा भवतीत्याह– सप्त समुद्घाता: प्रज्ञप्ता:, तद्यथा- वेदनासमुद्घात इत्यादि, तत्र वेदनासमुद्घातोऽसद्वेद्यकाश्रय:, कषायसमुद्घात: कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तमुहूर्त्तशेषायुष्ककर्माश्रयः, वैकुर्विक-तैजसा-ऽऽहारकसमुद्घाता: शरीरनामकर्माश्रया:, केवलिसमुद्घातस्तु सदसद्वेद्यशुभाशुभ-नामोच्चनीचर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धत: कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धत: आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराबहिनिःकास्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्रारबद्धान् शातयति, यथोक्तम्- वेउब्वियसमुग्घाएणं समोहणइ, समोहणित्ता संखेजाई जोयणाई दंडं निसरइत्यादि, एवं तैजसा-ऽऽहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धत: केवली वेदनीयादिकर्मापुद्गलान् शातयतीति, इहान्त्यो