________________
सप्तममध्ययनं सप्तस्थानकम् ।
५८७
सव्विंदियजोगजुंजणता ६।
लोगोवतारविणते सत्तविधे पन्नत्ते, तंजहा-अब्भासवत्तितं, परच्छंदाणुवत्तितं, कजहेउं, कतपडिकतिता, अत्तगवेसणता, देसकालण्णता, सव्वत्थेसु अपडिलोमता ७।
[टी०] मनोवाक्कायविनयान् प्रशस्ताप्रशस्तभेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनयं च सप्तधैवाह- पसत्थमणेत्यादि सूत्रसप्तकं सुगमम्, नवरं प्रशस्त: शुभो मनसो विनयनं विनयः, प्रवर्त्तनमित्यर्थः, प्रशस्तमनोविनयः। तत्र अपापकः शुभचिन्तारूप:, असावद्य: चौर्यादिगर्हितकर्मानालम्बन:, अक्रिय: कायिक्याधिकरणिक्यादिक्रियावर्जितः, निरुपक्लेश: शोकादिबाधावर्जित:, स्नु प्रश्रवणे [पा० धा० १०३८] इति वचनात् आस्नव: आश्रव: कर्मोपादानम्, तत्करणशील आस्नवकरः, तनिषेधादनास्नवकरः प्राणातिपाताद्याश्रववर्जित इत्यर्थः, अक्षयिकर: प्राणिनां न क्षये: व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो न भूतान्यभिशङ्कन्ते बिभ्यति यस्मात् स तथा, अभयङ्कर इत्यर्थः, एतेषां च प्रायः सदृशार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोऽवगन्तव्योऽन्यथा वेति, एवं शेषमपि । आयुक्तं गमनम् आयुक्तस्य उपयुक्तस्य संलीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थानम् ऊर्ध्वस्थानं कायोत्सर्गादि, निसीयणं ति निषदनम् उपवेशनम्, तुयट्टणं शयनम्, उल्लङ्घनं डेवनं देहल्यादेः, प्रलङ्घनम् अर्गलादेः, सर्वेषामिन्द्रियाणां योगा व्यापारा: सर्वे वा ये इन्द्रिययोगास्तेषां योजनता करणं सर्वेन्द्रिययोगयोजनता ।।
लोकोपचारविनये, अब्भासवत्तियं ति प्रत्यासत्तिवर्त्तित्वम्, श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, परच्छंदाणुवत्तियं ति पराभिप्रायानुवर्त्तित्वम्, कजहेउं ति कार्यहेतोः, अयमर्थ:- कार्यं श्रुतप्रापणादिकं हेतुं कृत्वा, श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण विनये तस्य वर्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति, तथा कृतप्रतिकृतिता कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं प्रत्युपकरणं सूत्रादिदानत: करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्य दुःखार्तस्य गवेषणम् औषधादेरित्यार्त्तगवेषणं तदेवाऽऽर्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, देश