________________
५९०
श्रुतधर्मस्तत्प्रधाना: प्रणायकत्वेनाचार्या धर्माचार्या-स्तन्मतोपदेष्टार इत्यर्थः, तत्र जमाली क्षत्रियकुमारो भगवन्महावीरजामातृभागिनेयः, विस्तरार्थोऽस्य भगवत्या अस्य वृत्तेश्च ज्ञेय इति १।
तथा तिष्यगुप्त: वसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यः, यो हि राजगृहे विहरन्नात्मप्रवादाभिधानपूर्वस्य एगे भंते ! जीवप्पएसे जीवे त्ति वत्तव्वं सिया ? नो इणढे [समट्टे - इत्यादि वृत्तौ ] २ ।
तथा आषाढः, येन हि श्वेतव्यां नगर्यां पोलासे उद्याने स्वशिष्याणां प्रतिपन्नागाढयोगानां रात्रौ हृदयशूलेन मरणमासाद्य देवेन भूत्वा तदनुकम्पया स्वकीयमेव कडेवरमधिष्ठाय सर्वां सामाचारीम् अनुप्रवर्त्तयता योगसमाप्ति: शीघ्रं कृता, वन्दित्वा तानभिहितं च- क्षमणीयं भदन्ता: ! यन्मया यूयं वन्दनं कारिता:, यस्य च शिष्या ‘इयच्चिरमसंयतो वन्दितोऽस्माभिः' इति विचिन्त्याव्यक्तमतमाश्रिताः, इत्यादि ३।
तथा अश्वमित्रः, यो हि महागिरिशिष्यस्य कौण्डिन्याभिधानस्य शिष्यो मिथिलायां नगर्यां लक्ष्मीगृहे चैत्ये अनुप्रवादाभिधाने पूर्व नैपुणिके वस्तुनि छिन्नच्छेदनयवक्तव्यतायां पडुप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणिय त्ति, इत्यादि वृत्तौ
४
।
तथा गंग इति, यो हि आर्यमहागिरिशिष्यस्य धनगुप्तस्य शिष्य: उल्लुकातीराभिधाननगराच्छरद्याचार्यवन्दनार्थं प्रस्थित उल्लुकां नदीमुत्तरन् खलतिना शिरसा दिवाकरकरनिकरसम्पातसञ्जातमुष्णं पादाभ्यां च शीतलजलजनितनितान्तशीतं वेदयंश्चिन्तयामास- [ सूत्रेऽभिहितमेका क्रियैकदा वेद्यते शीता वोष्णा वा, अहं च द्वे क्रिये वेदयामि, इत्यादि वृत्तौ ] ५ ।।
तथा छलुए त्ति षडुलूकः, यो हि नामान्तरेण रोहगुप्तः, यश्चाऽन्तरञ्ज्यां पुर्यां भूतगुहाभिधानव्यन्तरायतने व्यवस्थितानां श्रीगुप्ताभिधानाना-माचार्याणां वन्दनार्थं ग्रामान्तरादागच्छन् प्रवादिप्रदापितपटहकध्वनिमाकर्ण्य सदर्पं च तं निषेध्याऽऽचार्यस्य तन्निवेद्य ततो मायूर्यादिविद्या उपादाय राजकुलमतिगत्य बलश्रीनाम्नो नरनायकस्याग्रत: पोटशालाभिधानपरिव्राजकप्रवादिनमाहूय तेन च जीवा-ऽजीवलक्षणे राशिद्वये स्थापिते