________________
सप्तममध्ययनं सप्तस्थानकम् ।
तत्प्रतिभाप्रतिघाताय नोजीवलक्षणं तृतीयं राशिं व्यवस्थाप्य तद्विद्यानां स्वविद्याभि: प्रतिघातकरणेन तं निगृह्य गुरुसमीपमागत्य तन्निवेदितवान्, यश्च गुरुणा अभिहितो यथागच्छ राजसभामित्यादि ६ ।
५९१
तथा गोष्ठामाहिल इति, यो हि दशपुरनगरे आर्यरक्षितस्वामिनि दिवं गते आचार्य श्रीदुर्बलिकापुष्पमित्रे गणं परिपालयति विन्ध्याभिधानसाधोरष्टमं कर्मप्रवादाभिधानं पूर्वमाचार्यादुपश्रुत्य प्रत्युच्चारयतः कर्म्मबन्धाधिकारे किञ्चित् कर्म जीवप्रदेशैः स्पृष्टमात्रं कालान्तरस्थितिमप्राप्य विघटते शुष्ककुड्यापतितचूर्णमुष्टिवत्, किञ्चित् पुनः स्पृष्टं बद्धं च कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवत्, किञ्चित् पुनः स्पृष्टं बद्धं निकाचितं जीवेन सहैकत्वमापन्नं कालान्तरेण वेद्यते इत्येवमाकर्ण्योक्तवान् नन्वेवं मोक्षाभाव: प्रसजति, कथम् ? जीवात् कर्म्म न वियुज्यते । तत्र विवादे गुरुभिः बहुभिर्हेतुभिः प्रतिपद्यमानो यदा नैतत् प्रतिपन्नवानुद्घाटितश्चेति सोऽयमबद्धिकधर्माचार्य इति ७ ।
उत्पत्तिनगराणि सप्तानां क्रमेण सप्तैव होत्थ त्ति सामान्येन वर्त्तमानत्वेऽपि नगराणां तद्विशेषगुणातीतत्वेनातीतनिर्देश:, सावत्थी गाहा, ऋषभपुरं राजगृहम्, उल्लुका नदी, तत्तीरवर्त्तिनगरमुल्लुकातीरम्, पुरीति नगरी अंतरंजीति तन्नाम, इह च मकारोऽलाक्षणिकः, दसपुर ति अनुस्वारलोपादिति ।
[सू० ५८८] सातावेयणिज्जस्स कम्मस्स सत्तविधे अणुभावे पन्नत्ते, तंजहामणुन्ना सद्दा, मणुण्णा रूवा जाव मणुन्ना फासा, मणोसुहता, वतिसुहता । असातावेयणिज्जस्स णं कम्मस्स सत्तविधे अणुभावे पन्नत्ते, तंजहाअमणुण्णा सद्दा जाव वतिदुता ।
[ टी०] एते च निह्नवा: संसारे पर्यटन्तः सातासातभोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाह - सायेत्यादि कण्ठ्यम्, नवरम् अणुभावे त्ति विपाक: उदयो रस इत्यर्थः, मनोज्ञाः शब्दादयः सातोदयकारणत्वादनुभावा एवोच्यन्ते, तथा मनसः शुभता मनःशुभता, साऽपि सातानुभावकारणत्वात् सातानुभाव उच्यते, एवं वचः शुभताऽपि, मनःसुखता वा सातानुभावः, तत्स्वरूपत्वात् तस्याः, एवं वाक्सुखताऽपीति,