________________
५९२
एवमसातानुभावोऽपि । [सू० ५८९] महाणक्खत्ते सत्ततारे पन्नत्ते १ ।
अभितीयादिता सत्त णक्खता पुव्वदारिता पन्नत्ता, तंजहा-अभिती, सवणो, धणिट्ठा, सतभिसता, पुव्वा भद्दवता, उत्तरा भद्दवता, रेवती २ ।
अस्सिणितादिता णं सत्त णक्खत्ता दाहिणदारिता पन्नत्ता, तंजहाअस्सिणी, भरणी, कित्तिता, रोहिणी, मिगसिर, अद्दा, पुणव्वसू ३ ।
पुस्सादिता णं सत्त णक्खत्ता अवरदारिता पन्नत्ता, तंजहा- पुस्सो, असिलेसा, मघा, पुव्वा फग्गुणी, उत्तरा फग्गुणी, हत्थो, चित्ता ४ ।
सातितातिया णं सत्त णक्खत्ता उत्तरदारिता पन्नत्ता, तंजहा- साति, विसाहा, अणुराहा, जेट्ठा, मूलो, पुव्वा आसाढा, उत्तरा आसाढा ५ ।
[टी०] सातासाताधिकारात् तद्वतां देवविशेषाणां प्ररूपणाय सूत्रपञ्चकमाह- महेत्यादि सुगमम्, नवरं पूर्वं द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशि गम्यते येष्वित्यर्थः, एवं शेषाण्यपि सप्त सप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह चन्द्रप्रज्ञप्त्याम्तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु कत्तिआइआ सत्त नक्खत्ता पुव्वदारिया पन्नत्ता [१०।२१], एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्विन्यादीनि अपरे भरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, वयं पुण एवं वयामो अभियियाइया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता [१०।२१], एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके तु प्रथमं मतमाश्रित्यैतदभिधीयते, यदुक्तं -
दहनाद्यमृक्षसप्तकमैन्त्र्यां तु मघादिकं च याम्यायाम् । अपरस्यां मैत्र्यादिकमथ सौम्यां दिशि धनिष्ठादि ॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तौ । अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् ॥ पूर्वायामौदीच्यं प्रातीच्यं दक्षिणाभिधानायाम् । याम्यं तु भवति मध्यममपरस्यां यातुराशायाम् ॥