________________
सप्तममध्ययनं सप्तस्थानकम् ।
५९३
येऽतीत्य यान्ति मूढा: परिघाख्यामनिलदहनदिनेखाम् । निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः ॥ [ ] इति, [सू० ५९०] जंबूदीवे दीवे सोमणसे वक्खारपव्वते सत्त कूडा पन्नत्ता, तंजहासिद्धे सोमणसे ता बोद्धव्वे मंगलावतीकूडे । देवकुरु विमल कंचण वसिट्ठकूडे त बोद्धव्वे ॥८७॥ जंबुद्दीवे दीवे गंधमायणे वक्खारपव्वते सत्त कूडा पन्नत्ता, तंजहासिद्धे त गंधमातण बोधव्वे गंधिलावतीकूडे । उत्तरकुरु फलिहे लोहितक्ख आणंदणे चेव ॥८८॥ [टी०] देवाधिकारादेवनिवासकूटसूत्रद्वयं जंबू इत्यादि कण्ठ्यम्, केवलं सोमणसे त्ति सौमनसे गजदन्तके देवकुरूणां प्राचीने कूटानि शिखराणि, सिद्धे गाहा, सिद्धायतनोपलक्षितं सिद्धकूटं मेरुप्रत्यासन्नमेवं सर्व्वगजदन्तकेषु सिद्धायतनानि, शेषाणि तत: परंपरयेति, सोमणसे त्ति सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितम्, मङ्गलावतीविजयसमनामदेवस्य मङ्गलावतीकूटम्, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विमल-काञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधानाधोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवास:, एवमुत्तरत्रापि । गन्धमादनो गजदन्तक एवोत्तरकुरूणां प्रतीचीन:, तत्र सिद्ध गाहा कण्ठ्या, नवरं स्फटिककूटलोहिताक्षकूटे अधोलोकनिवासिभोगङ्करा-भोगवत्यभिधानदिक्कुमारीद्वयनिवासभूते इति। [सू० ५९१] बेतिंदिताणं सत्त जातीकुलकोडिजोणिपमुहसतसहस्सा पन्नत्ता। [सू० ५९२] जीवा णं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा-नेरतियनिव्वत्तिते जाव देवनिव्वत्तिते। एवंचिण जाव णिज्जरा चेव ॥
[सू० ५९३] सत्तपदेसिता खंधा अणंता पण्णत्ता । सत्तपदेसोगाढा पोग्गला जाव सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता ।