________________
६८८
श्रमणधर्मो व्याख्यात एव, नवरं चियाए त्ति त्यागो दानधर्म इति । व्यावृतो व्यापतो वा व्यापारपरस्तत्कर्म वैयावृत्यं वैयापत्यं वा भक्तपानादिभिरुपष्टम्भ इत्यर्थः, साहम्मिय त्ति समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिका: साधवः ।
परिणामेत्यादि, परिणमनं परिणामस्तद्भावगमनमित्यर्थः, यदाहपरिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः ॥ [ ] द्रव्यार्थनयस्येति ।
जीवस्य परिणाम इति विग्रहः, स च प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणाम:, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयानारकादिव्यपदेशहेतु: तत्परिणामश्चाऽऽभवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवतीति तमाह- इंदियपरिणामे त्ति, स च श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं कषायपरिणाम उक्तः, स च क्रोधादिभेदाच्चतुर्विधः । कषायपरिणामे च सति लेश्यापरिणतिर्न तु लेश्यापरिणतौ कषायपरिणति: येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद् भवति । अतो लेश्यापरिणाम उक्तः, स च कृष्णादिभेदात् षोढेति । अयं च योगपरिणामे सति भवति, यस्मान्निरुद्धयोगस्य लेश्यापरिणामोऽपैति, यत: समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवतीति लेश्यापरिणामानन्तरं योगपरिणाम उक्त:, स च मनोवाक्कायभेदात् विधेति । संसारिणां च योगपरिणतावुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्तः, स च साकारानाकारभेदाद् द्विधा । सति चोपयोगपरिणामे ज्ञानपरिणामोऽतस्तदनन्तरमसावुक्तः, स चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टानमप्यज्ञानमित्यज्ञानपरिणामो मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानलक्षणस्त्रिविधोऽपि विशेषग्रहणसाधर्म्यात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति । ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्तः, स च त्रिधा सम्यक्त्व-मिथ्यात्व-मिश्रभेदात् । सम्यक्त्वे सति चारित्रमिति ततस्तत्परिणाम उक्तः, स च सामायिकादिभेदात् पञ्चधेति । स्त्र्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणाम वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दृष्टे ति