________________
दशममध्ययनं दशस्थानकम् ।
६८७
.
थेर(वेयावच्चे], तवस्सि[वेयावच्चे], गिलाणवेयावच्चे], सेह[वेयावच्चे], कुलावेयावच्चे], गण[वेयावच्चे], संघवे यावच्चे], साधम्मियवेयावच्चे ।
[सू० ७१३] दसविधे जीवपरिणामे पन्नत्ते, तंजहा-गतिपरिणामे, इंदियपरिणामे, कसायपरिणामे, लेसा परिणामे] जोगपरिणामे], उवओग[परिणामे], णाण[परिणामे], दंसण[परिणामे], चरित्तपरिणामे, वेत[परिणामे।
दसविधे अजीवपरिणामे पन्नत्ते, तंजहा-बंधणपरिणामे, गति[परिणामे], संठाणपरिणामे, भेदापरिणामे], वण्ण[परिणामे], रसापरिणामे], गंध[परिणामे], फास[परिणामे], अगुरुलहु[परिणामे], सद्दपरिणामे ।
[टी०] उक्तमदविलक्षण: समाधिरिति तत्सूत्रम्, एतद्विपक्षोऽसमाधिरिति तत्सूत्रम्, समाधीतरयोराश्रय: प्रव्रज्येति तत्सूत्रम्, प्रव्रज्यावतश्च श्रमणधर्मस्तद्विशेषश्च वैयावृत्यमिति तत्सूत्रे, जीवधर्माश्चैत इति जीवपरिणामसूत्रम्, एतद्विलक्षणत्वादजीवपरिणामसूत्रम्, सुगमानि चैतानि, नवरं समाहि त्ति समाधानं समाधि: समता, सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदाद्दशधेति ।
छंदा गाहा, छंद त्ति छन्दात् स्वकीयादभिप्रायविशेषाद् गोविन्दवाचकस्येव सुन्दरीनन्दस्येव वा, परकीयाद्वा भ्रातृवशभवदत्तस्येव या सा छंदा, रोसा य त्ति रोषात् शिवभूतेरिव या सा रोषा, परिजुण्ण त्ति परिघूना दारिद्र्यात् काष्ठहारकस्येव या सा परिघूना, सुविणेति स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यते सा स्वप्ना, पडिसुत चेव त्ति प्रतिश्रुतात् प्रतिज्ञाताद् या सा प्रतिश्रुता शालिभद्रभगिनीपतिधन्यकस्येव, सारणिय त्ति स्मारणाद्या सा स्मारणिका मल्लिनाथस्मारितजन्मान्तराणां प्रतिबुद्ध्यादिराजानामिव, रोगिणिय त्ति रोग: आलम्बनतया विद्यते यस्यां सा रोगिणी, सैव रोगिणिका सनत्कुमारस्येव, अणाढिय त्ति अनादृता अनादराद्या सा अनादृता नन्दिषेणस्येव अनादृतस्य वा शिथिलस्य या सा तथा, देवसन्नत्ति त्ति देवसंज्ञप्ते: देवप्रतिबोधनाद्या सा तथा मेतार्यादेरिवेति, वच्छाणुबंधा य त्ति गाथातिरिक्तम्, वत्स: पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरस्वामिमातुरिवेति ।