________________
४९१
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन भुङ्क्ते स शनैश्चरसंवत्सर इति, यतश्चन्द्रप्रज्ञप्तिसूत्रम्- सनिच्छरसंवच्छरे अट्ठावीसविहे पन्नत्ते अभीई सवणे जाव उत्तरासाढा, जं वा सनिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेइ [चन्द्र० १०।२०।५८] त्ति ।
युगसंवत्सरः पञ्चविधः, तद्यथा- चंदे त्ति एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्येत्येवंप्रमाण: २९ १३ , कृष्णप्रतिपदारब्ध: पौर्णमासीनिष्ठितश्चन्द्रमासः, तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सर:,तस्य च प्रमाणमिदम्- त्रीणि शतान्यह्नां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा: ३५४ ६२, एवं द्वितीय-चतुर्थावपि चन्द्रसंवत्सरौ, अभिवड्डिए त्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमास: ३११२१, एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरः, स च प्रमाणेन त्रीणि शतान्यह्रां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा: ३८३३३। इत्येवं पञ्चमोऽपि, एभिश्चान्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवर्द्धिताख्ये संवत्सरे अधिकमासक: पततीति । __ प्रमाणसंवत्सरः पञ्चविधः, तत्र नक्षत्र इति नक्षत्रसंवत्सरः, स च उक्तलक्षण:, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्र विवक्षितमिह तु दिन-दिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव किन्तु तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशेष:, उऊ इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणैर्द्वादशभिः ऋतुमासै: सावनमासकर्म-मासपर्यायैर्निष्पन्न: षष्ट्यधिकाहोरात्रशतत्रयमान इति ३६०, आइच्चे त्ति आदित्यसंवत्सरः, स च त्रिंशद्दिनान्यर्द्धं चेति, एवंविधमासद्वादशकनिष्पन्न: षट्षष्ट्यधिकाहोरात्रशतत्रयमान इति ३६६ ।
अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । तत्र नक्षत्रमाह- समगं गाहा, समकं समतया नक्षत्राणि कृत्तिकादीनि योगं कार्त्तिकपौर्णमास्यादितिथ्या सह सम्बन्धं योजयन्ति कुर्वन्ति, इदमुक्तं भवति– यानि नक्षत्राणि यासु तिथिषूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिका:, तानि तास्वेव यत्र भवन्ति, यथोक्तम्