________________
४९२
जेठो वच्चइ मूलेण सावणो धणिवाहिं । अद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा ॥ [ ] इति
तथा यत्र समतयैव ऋतव: परिणमन्ति, न विषमतया, कार्त्तिक्या अनन्तरं हेमन्तर्तुः पौष्या अनन्तरं शिशिरर्द्धरित्येवमवतरन्तीति भावः, यश्च न नैव अतीव उष्णं धर्मो यत्र सोऽत्युष्णः, न नैवाऽतिशीत: अतिहिम:, बहूदकं यत्र स बहूदकः, स च भवति लक्षणतो नक्षत्र इति, नक्षत्रचारलक्षणलक्षितत्वान्नक्षत्रसंवत्सर इति, अस्यां च गाथायां पञ्चमाष्टमावंशकौ पञ्चकलावितीयं विचित्रेति छंदोविद्भिपदिश्यते, पबहुला विचित्तत्ति गाथालक्षणात् पत्ति पंचकलो गण इति ।
ससि गाहा ससि त्ति विभक्तिलोपात् शशिना चन्द्रेण सकलपौर्णमासी समस्तराकां यः संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासी योजयति आत्मना सम्बन्धयति । तथा विषमचारीणि यथास्वतिथिष्ववर्तीनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्भावात् बहूदकश्च, दीर्घत्वं प्राकृतत्वात्, तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विदः संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति । विसमं गाहा, विषमं वैषम्येण प्रवालं पल्लवाङ्कुरः, तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति प्रवालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रवालिनो वृक्षा: परिणमन्ति अङ्कुरोद्रेदाद्यवस्था यान्ति, तथा अनृतुषु अस्वकालं ददति प्रयच्छन्ति पुष्पफलम्, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूता: माघादिषु पुष्पादि यच्छन्तीति, तथा वर्षं वृष्टिं मेघो न सम्यग् वर्षति यत्रेति गम्यते, तमाहुर्लक्षणत: संवत्सरं कार्मणम्, यस्य ऋतुसंवत्सर: सावनसंवत्सरश्चेति पर्यायौ ।
पुढवि गाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रसं माधुर्य-स्निग्धतालक्षणं पुष्पफलानां च ददात्यादित्य: तथास्वभावत्वात्, तथाविधोदकाभावेऽपीति भावः, अत एवाल्पेनापि वर्षेण सम्यक यथाभिमतं निष्पद्यते सस्यं शाल्यादिधान्यं स लक्षणत आदित्यसंवत्सर उच्यत इति शेष इति ।
आइच्च गाहा, आदित्यतेजसा तप्ता: पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यम्, तत्र क्षणो मुहूर्त:, लव: एकोनपञ्चाशदुच्छ्वासप्रमाणः, दिवस: अहोरात्र:,