SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । ४९३ ऋतुः मासद्वयप्रमाणः, परिणमन्ति अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभि: स्थलानि भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणत: संवत्सरमभिवर्द्धितं जाणे त्ति त्वमपि शिष्य ! तं तथैव जानीहीति । संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण प्रायो लिखितमिति। [सू० ४६१] पंचविधे जीवस्स णिज्जाणमग्गे पन्नत्ते, तंजहा-पातेहिं, ऊरूहिं, उरेणं, सिरेणं, सव्वंगेहिं । पाएहिं णिज्जायमाणे निरयंगामी भवति, ऊरूहिं णिजायमाणे तिरियगामी भवति, उरेणं निजायमाणे मणुयगामी भवति, सिरेणं णिजायमाणे देवगामी भवति, सव्वंगेहिं निजायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते । [टी०] अनन्तरं संवत्सर उक्तः, स च काल:, कालात्यये च शरीरिणां शरीरान्निर्गमो भवतीत्यतस्तन्मार्ग निरूपयन्नाह– पंचविहेत्यादि व्यक्तम्, किन्तु निर्याणं मरणकाले शरीरिण: शरीरान्निर्गमः, तस्य मार्गो निर्याणमार्गः पादादिकः, तत्र पाएहिं ति पादाभ्यां मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीव: शरीरान्निर्यातीति शेष:, एवम् ऊरुभ्यामित्यादावपि। ___ अथ क्रमेणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो निरयंगामि त्ति प्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान्, सिद्धिगति: पर्यवसानं संसरणपर्यन्तो यस्य स सिद्धिगतिपर्यवसान: प्रज्ञप्त इति । [सू० ४६२] पंचविधे छेदणे पन्नत्ते, तंजहा- उप्पाछेदणे, वियच्छेयणे, बंधणच्छेयणे, पएसच्छेदणे, दोधारच्छेदणे । पंचविधे आणंतरिते पन्नत्ते, तंजहा- उप्पायणंतरिते, वियाणंतरिते, पतेसाणंतरिते, समयाणंतरिते, सामण्णाणंतरिते । [टी०] निर्याणं चायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह-पंचविहेत्यादि कण्ठ्यम्, केवलम् उप्प त्ति उत्पादो देवत्वादिपर्यायान्तरस्य, तेन छेदो जीवादिद्रव्यस्य विभाग उत्पादच्छेदनम्, तथा विय त्ति व्ययो विगमो मानुषत्वादिपर्यायस्य, तेन छेदनं जीवादेरेवेति व्ययच्छेदनम्, तथा बन्धनस्य जीवापेक्षया कर्मण: स्कन्धापेक्षया तु
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy