________________
४९४
सम्बन्धस्य छेदनं विनशनं बन्धनच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो बुद्ध्या छेदनं विभजनं प्रदेशच्छेदनम्, तथा जीवादेरेव द्रव्यस्य द्विधा करणं द्विधाकार:, स एव छेदनं द्विधाकारच्छेदनम्, उपलक्षणं चैतत् त्रिधाकारादीनाम्, अनेन च देशत: छेदनमुक्तम्, अथवोत्पादस्य उत्पत्तेः छेदनं विरहो यथा नरकगतौ द्वादश मुहूर्ता:, व्ययच्छेदनम् उद्वर्त्तनाविरह:, सोऽप्येवम्, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्मबन्धनापेक्षया, प्रदेशच्छेदनं प्रदेशविरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानाम्, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम्, तच्च क्षुर-खड्ग-चक्रादि, एतच्च छेदनशब्दसामान्यादिहोपात्तमिति, प्रदेशच्छेदनस्थाने क्वचित् पंथच्छेयणे त्ति पठ्यते, तत्र पथिच्छेदनं मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः ।
छेदनस्य च विपर्यय आनन्तर्यमिति तदाह- पंचविहेत्यादि, आनन्तर्यं सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा निरयगतौ जीवानामुत्कर्षत: असङ्ख्येया: समया:, एवं व्ययस्यापि, प्रदेशानां समयानां च तत् प्रतीतमेव, अविवक्षितोत्पाद-व्ययादिविशेषणमानन्तर्यमानं सामान्यानन्तर्यम्, श्रामण्यस्य वा आकर्षविरहेणानन्तर्यं श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्यम्, तच्चाष्टौ समया इति ।
[सू० ४६३] पंचविधे अणंतते पन्नत्ते, तंजहा- णामाणंतते, ठवणाणंतते, दव्वाणंतते, गणणाणंतते, पदेसाणंतते १।
अहवा पंचविहे अणंतते पन्नत्ते, तंजहा- एगतोणंतते, दुहतोणंतते, देसवित्थाराणंतते, सव्ववित्थाराणंतते, सासयाणंतते २॥
[टी०] अनन्तरसूत्रे समयप्रदेशानामानन्तर्यमुक्तम्, ते चानन्ता इत्यनन्तकमेव प्ररूपयन्नाह– पंचविहेत्यादि सूत्रद्वयं प्रतीतार्थम्, नवरं नाम्ना अनन्तकं नामानन्तकम् अनन्तकमिति यस्य नाम, यथा समयभाषया वस्त्रमिति, स्थापनैव स्थापनया वा अनन्तकं स्थापनानन्तकम् अनन्तकमिति कल्पनयाऽक्षादिन्यासः, ज्ञशरीरादिव्यतिरिक्तं द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्यानन्तकम्, गणना सङ्ख्यानम्,