________________
६६२
बुभुजिरे, शङ्खस्तु प्रात: पौषधमपारयित्वैव पारगतपादपद्मप्रणिपतनार्थं प्रतस्थौ, प्रणिपत्य च तमुचितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धर्मं च श्रुत्वा शङ्खान्तिकं गत्वा एवमूचुः- सुष्ठ त्वं देवानांप्रिय ! अस्मान् हीलयसि, ततस्तान् भगवान् जगादमा भो यूयं शङ्ख हीलयत, शङ्खो ह्यहीलनीयः, यतोऽयं प्रियधर्मा दृढधा च, तथा सुदृष्टिजागरिकां जागरित इत्यादि ६-७ ।
सुलसा राजगृहे प्रसेनजितो राज्ञ: सम्बन्धिनो नागाभिधानस्य रथिकस्य भार्या बभूव, यस्याश्चरितमेवमनुश्रूयते– किल तया पुत्रार्थं स्वपतिरिन्द्रादीन् नमस्यन्नभिहित: अन्यां परिणयेति, स च यस्तव पुत्रस्तेन मे प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान्, इतश्च तस्या: शक्रालये सम्यक्त्वप्रशंसां श्रुत्वा तत्परीक्षार्थं कोऽपि देव: साधुरूपेणागतस्तं च वन्दित्वा बभाण किमागमनप्रयोजनम्?, देवोऽवादीत्- तव गृहे लक्षपाकं तैलमस्ति तच्च मे वैद्येनोपदिष्टमिति तद्दीयताम्, ददामीत्यतिगता गृहमध्ये अवतारयन्त्याश्च भिन्नं देवेन तद्भाजनम्, एवं द्वितीयं तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, ‘एकैकां खादेः' द्वात्रिंशत् ते सुता भविष्यन्ति, प्रयोजनान्तरे चाहं स्मर्त्तव्यः इत्यभिधाय गतोऽसौ, चिन्तितं चानया सर्वाभिरप्येक एव मे पुत्रो भूयादिति सर्वाः पीता:, आहूता द्वात्रिंशत् पुत्राः, वर्द्धते स्म जठरमरतिश्च, तत: कायोत्सर्गमकरोत्, आगतो देवो निवेदितो व्यतिकरो विहितो महोपकारो जातो लक्षणवत्पुत्रगण इत्यादि ८ ।
तथा रेवती भगवत औषधदात्री, कथम् ?, किलैकदा भगवतो मेण्ढिकग्रामनगरे विहरत: पित्तज्वरो दाहबहुलो बभूव इत्यादि ९।
[सू० ६९२] एस णं अजो ! कण्हे वासुदेवे, रामे बलदेवे, उदये पेढालपुत्ते, पुट्टिले, सतते गाहावती, दारुते नितंठे, सच्चती नितंठीपुत्ते, सावितबुद्धे अंबडे परिव्वायते, अज्जा वि णं सुपासा पासावच्चिजा आगमेस्साते उस्सप्पिणीते चाउज्जामं धम्मं पन्नवतित्ता सिज्झिहिंति जाव अंतं काहिति । [टी०] अनन्तरं ये तीर्थकरा भविष्यन्ति ते प्रकृताध्ययनानुपातेनोक्ता अधुना तु ये