________________
६६१
नवममध्ययनं नवस्थानकम् । तीर्थकरनाम तच्च गोत्रं च तीर्थकरनामगोत्रमिति । श्रेणिको राजा प्रसिद्धस्तेन १ । एवं सुपार्थो भगवतो वर्द्धमानस्य पितृव्य: २ । उदायी कोणिकपुत्रः, य: कोणिकेऽपक्रान्ते पाटलिपुत्रं नगरं न्यवीविशत् यश्च स्वभवनस्य विविक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरुं तत्पर्युपासनापरायणः परमसंवेगरस-प्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमनुतिष्ठते, एकदा च निशि देशनिर्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवास: सुखप्रसुप्त: कङ्काय:कर्तिकाकण्ठकर्त्तनेन विनाशित इति ३ ।
पोटिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भार्यात्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्न: महाविदेहात् सिद्धिगामी, अयं त्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्य: सम्भाव्यत इति ४, दृढायुप्रतीत: ५ ।
शङ्ख-शतको श्रावस्तीश्रावको, तयोरीदृशी वक्तव्यता- किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागताः, ततो निवर्तमानांस्तान् शङ्ख: खल्वाख्याति स्म- यथा भो देवानांप्रियाः! विपुलमशनाद्युपस्कारयत ततस्तत् परिभुञ्जाना: पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, ततस्ते तत् प्रतिपेदिरे, पुन: शङ्खोऽचिन्तयत्- न श्रेयो मेऽशनादि भुञ्जानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्तुम्, श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरण-शस्त्रादेः शान्तवेषस्य विहर्तुम्, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत्, इतश्च तेऽशनाद्युपस्कारयांचक्रुः एकत्र च समवेयुः, शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शो पुष्कली नाम श्रमणोपासक: शतक इत्यपरनामा शङ्खस्याकारणार्थं तद्गृहं जगाम, आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, तत: पौषधशालायां स विवेश, ईर्यापथिकीं प्रतिचक्राम, शङ्खमभ्युवाच यदुतोपस्कृतं तदशनादि तद् गच्छाम: श्रावकसमवायम्, भुज्महे तदशनादि, प्रतिजागृम: पाक्षिकपौषधम्, तत उवाच शङ्ख:- अहं हि पौषधिको नागमिष्यामीति, तत: पुष्कली गत्वा श्रावकाणां तत् निविवेद, ते तु तदनु