________________
६६०
नीलवत्कूटाद् दक्षिणतः सहस्रप्रमाणं विद्युत्प्रभवर्त्ति, हरिकूटं नन्दनवनवर्त्ति बलकूटं च, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, एवं कच्छादिविजयवैताढ्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि, नवरम् एवं जाव पुक्खलावइम्मीत्यादौ यावत्करणान्महाकच्छ-कच्छावती-आवर्त्त - नङ्गलावर्त्त - पुष्कलेषु सुकच्छवद् वैताढ्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति । एवं वच्छे त्ति शीताया दक्षिणे समुद्रासन्ने, एवं जाव मंगलावइम्मीत्यत्र यावत्करणात् सुवच्छ-महावच्छ- वच्छावती - रम्य - रम्यक - रमणीयेषु प्रागिव कूटनवकं दृश्यमिति । जंबु इत्यादि विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नव कूटानि पूर्ववत्, नवरं दिक्कुमार्यौ वारिसेना-बलाहकाभिधाने क्रमेण कनककूट-स्वस्तिककूटयोरिति । पम्हे त्ति शीतोदाया दक्षिणेन विद्युत्प्रभाभिधानगजदन्तकप्रत्यासन्नविजये, जाव सलिलावइम्मीत्यत्र यावत्करणात् सुपक्ष्म-महापक्ष्म-पक्ष्मावती-शङ्ख-नलिन-कुमुदेषु प्रागिव नव नव कूटानि वाच्यानि । एवमित्युक्ताभिलापेन वप्पे ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये, जाव गंधिलावइम्मीत्यत्र यावत्करणात् सुवप्र-महावप्रवप्रावती-वल्गु-सुवल्गु-गन्धिलेषु नव नव कूटानि प्रागिव दृश्यानीति । पुनः पम्हादिविजयेषु षोडशस्वतिदिशति एवं सव्वेसु इत्यादिना कूटानां सामान्यं लक्षणमुक्तमिति, विशेषार्थिना तु जम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि ऐरवतकूटानि च व्याख्येयानीति ।
[सू० ६९०] पासे णं अरहा पुरिसादाणिए वज्जरिसभणारातसंघयणे समचउरंससंठाणसंठिते नव रयणीओ उड्डउच्चत्तेणं होत्था ।
[सू० ६९९ ] समणस्स भगवतो महावीरस्स तित्थम्मि णवहिं जीवेहिं तित्थगरणामगोत्ते कम्मे णिवत्तिते, तंजहा - सेणितेणं, सुपासेणं, उदातिणा, पोट्टिलेणं अणगारेणं, दढाउणा, संखेणं, सततेणं, सुलसाते सावियाते, रेवती ।
[टी०] इयं कूटवक्तव्यता तीर्थकरैरुक्तेति प्रकृतावतारिणीं जिनवक्तव्यतामाह– पासेत्यादि सूत्रत्रयं? [द्वयं] कण्ठ्यम्, नवरं तित्थगरनाम त्ति तीर्थकरत्वनिबन्धनं नाम