SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ नवममध्ययनं नवस्थानकम् । पञ्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताढ्ये पूर्वस्यां दिशि, शेषाणि तु क्रमेण परतस्तस्मादेवेति, भरतदेवप्रासादावतंसकोपलक्षितं भरतकूटम्, खंडग त्ति खण्डप्रपात नाम वैताढ्यगुहा यया चक्रवर्त्ती अनार्यक्षेत्रात् स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात् खण्डप्रपातकूटमुच्यते, माणीति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूटम्, वेयड्ड त्ति वैताढ्यगिरिनाथदेवनिवासाद् वैताढ्यकूटमिति, पुन्न त्ति पूर्णभद्राभिधानदेवनिवासात् पूर्णभद्रकूटम्, तिमिसगुहा नाम गुहा यया स्वक्षेत्राच्चक्रवर्त्ती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति, भरहे त्ति तथैव, वैश्रमणलोकपालावासत्वाद्वैश्रमणकूटमिति । सिद्धे गाहा, सिद्धेत्ति सिद्धायतनकूटम्, तथा निषधपर्वताधिष्ठातृदेवनिवासोपेतं निषधकूटम्, हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूटम्, एवं विदेहकूटमपि, ह्रीदेवीनिवासो ह्रीकूटम्, एवं धृतिकूटम्, शीतोदा नदी, तद्देवीनिवासः शीतोदाकूटम्, अपरविदेहकूटं विदेहकूटवदिति, रुचकश्चक्रवालपर्वतः तदधिष्ठातृदेवनिवासो रुचककूटमिति । नंदणे त्ति नन्दनवनं मेरोः प्रथममेखलायाम्, तत्र नव कूटानि, नंदण गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारि सिद्धायतनानि, विदिक्षु चतुश्चतुः पुष्करिणीपरिवृताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मात् सिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रासादाद्दक्षिणतो नन्दनकूटम्, तत्र देवी मेघङ्करा १, तथा पूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूटम्, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमम्, देव्यस्तु निषधकूटे सुमेघा, हैमवतकूटे मेघमालिनी, रजतकूटे सुवच्छा, रुचककूटे वच्छमित्रा, सागरचित्रकूटे वैरसेना, वैरकूटे बलाहकेति, बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दनवने तत्र बलो देव इति । ६५९ मालवंते इत्यादि, सिद्धे गाहा, माल्यवान् पूर्वोत्तरो गजदन्तपर्वतः, तत्र सिद्धायतनकूटं मेरोरुत्तरपूर्वतः एवं शेषाण्यपि, नवरं सिद्धकूटे भोगा देवी, रजतकूटे भोगमालिनी देवी, शेषेषु स्वसमाननामानो देवाः, हरिसहकूटं तु नीलवत्पर्वतस्य
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy