________________
सप्तममध्ययन सप्तस्थानकम् ।
५७७
तंजहा-धम्मत्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं, सई, गंधं । ___ एयाणि चेव उप्पन्नणाणे जाव जाणति पासति, तंजहा-धम्मत्थिकायं जाव गंधं ।
[टी०] अनन्तरं केवलदर्शनमुक्तम्, तच्च छद्मस्थावस्थाया अनन्तरं भवतीति छद्मस्थप्रतिबद्धं सूत्रद्वयं विपर्ययसूत्रं च छउमत्थेत्यादि सुगमम्, नवरं छद्मनि आवरणद्वयरूपे अन्तराये च कर्मणि तिष्ठतीति छद्मस्थ: अनुत्पन्नकेवलज्ञान-दर्शन: स चासौ वीतरागश्च उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इत्यर्थः, सत्त त्ति मोहस्य क्षयादुपशमाद्वा नाऽष्टावित्यर्थः, अत एवाह- मोहणिज्जवज्जाउ त्ति ।
[सू० ५६८] समणे भगवं महावीरे वइरोसभणारातसंघयणे समचउरंससंठाणसंठिते सत्त रयणीओ उटुंउच्चत्तेणं होत्था ।
[सू० ५६९] सत्त विकहाओ पन्नत्ताओ, तंजहा-इत्थिकहा, भत्तकहा, देसकहा, रायकहा, मिउकोलुणिता, दंसणभेयणी, चरित्तभेदणी ।
[टी०] एतान्येव च जिनो जानातीत्युक्तम्, स च वर्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांश्चाह–समणे इत्यादि सूत्रद्वयं सुगमम्, नवरं विकहाउ त्ति चतम्रः प्रसिद्धा: व्याख्याताश्चेति । मिउकोलुणिय त्ति श्रोतृहृदयमाईवजननात् मृद्वी सा चासौ कारुणिकी च कारुण्यवती मृदुकारुणिकी पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, तद्यथा
हा पुत्त पुत्त हा वच्छ ! वच्छ ! मुक्का मि कहमणाहाहं ? । एवं कलुणविलावा जलंतजलणेऽज सा पडिया ॥ [ ] इति । दर्शनभेदनी ज्ञानाद्यतिशयतः कुतीर्थिकप्रशंसादिरूपा, तद्यथासूक्ष्मयुक्तिशतोपेतं सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिर्दृष्टं श्रोतव्यं बौद्धशासनम् ॥ [ ] इत्यादि ।
एवं हि श्रोतॄणां तदनुरागात् सम्यग्दर्शनभेद: स्यादिति । चारित्रभेदनी 'न १. सू० २८२ ॥