________________
५७६
[टी०] ब्रह्मदत्त उत्तमपुरुष इति तदधिकारात् उत्तमपुरुषविशेषस्थानोत्पन्नमल्लि वक्तव्यतामाह– मल्ली णमित्यादि, मल्लिरहन् अप्पसत्तमे त्ति आत्मना सप्तमः सप्तानां पूरण:, आत्मा वा सप्तमो यस्यासावात्मसप्तमः, मल्लिशब्दस्य स्त्रीलिङ्गत्वेऽप्यर्हच्छब्दापेक्षया पुंनिर्देश:, विदेहजनपदराजस्य वरकन्या विदेहराजवरकन्या १, तथा प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराज: साकेतनिवासी २, चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी ३, रुक्मी नाम कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः ४, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी ५, अदीनशत्रुर्नाम्ना कुरुदेशनाथः हस्तिनागपुरवास्तव्यः ६, जितशत्रुर्नाम पञ्चालजनपदराजः काम्पिल्यनगरनायक इति ७, आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहितप्रधानपुरुषापेक्षयावगन्तव्यम्, यतः प्रव्रजितेन तेन ते प्रव्राजितः, तथा त्रिभिः पुरुषशतै: बाह्यपरिषदा त्रिभिश्च स्त्रीशतैरभ्यन्तरपरिषदाऽसौ संपरिवृतः प्रव्रजित इति ज्ञातेषु श्रूयत इति, उक्तं च- पास मल्ली य तिहिं तिहिं सएहिं[आव० नि० २२४] ति, एवमन्येष्वपि विरोधाभासेषु विषयविभागाः सम्भवन्तीति निपुणैर्गवेषणीयाः, शेषं सुगममिति । अत्र मल्लिचरित्रं ज्ञाताधर्म्मकथाङ्गे ।
[सू० ५६५ ] सत्तविहे दंसणे पन्नत्ते, तंजहा सम्मदंसणे, मिच्छदंसणे, सम्मामिच्छदंसणे, चक्खुदंसणे, अचक्खुदंसणे, ओहिदंसणे, केवलदंसणे ।
[टी०] एते च मल्ल्यादयः सम्यग्दर्शने सति प्रव्रजिता इति सामान्यतो दर्शननिरूपणायाह– सुगमम् परं सम्यग्दर्शनं सम्यक्त्वं मिथ्यादर्शनं मिथ्यात्वं सम्यग्मिथ्यादर्शनं मिश्रमिति, एतच्च त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावं चेति, चक्षुर्दर्शनादि तु दर्शनावरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशम-क्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धान-सामान्यग्रहणयोर्दर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति ।
[सू० ५६६] छउमत्थवीयरागे णं मोहणिज्जवज्जाओ सत्त कम्मपयडीओ वेदेति, तंजहा - णाणावरणिज्जं दरिसणावरणिज्जं वेयणिजं आउयं नामं गोतमंतरातितं ।
[सू० ५६७ ] सत्त ठाणाइं छउमत्थे सव्वभावेणं न याणति न पासति,