________________
५७८
सम्भवन्तीदानीं महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारकसाधु-शुद्धीनामभावादिति ज्ञान-दर्शनाभ्यां तीर्थं वर्त्तत इति ज्ञान-दर्शनकर्त्तव्येष्वेव यत्नो विधेयः' इत्यादि । अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति चारित्रभेदनीति ।
[सू० ५७०] आयरिय-उवज्झायस्स णं गणंसि सत्त अतिसेसा पन्नत्ता. तंजहा-आयरियउवज्झाए अंतो उवस्सगस्स पाते णिगिज्झिय णिगिज्झिय पप्फोडेमाणे वा पमजमाणे वा णातिक्कमति, एवं जधा पंचट्ठाणे जाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिक्कमति, उवकरणातिसेसे, भत्तपाणातिसेसे ।
[टी०] विकथासु च वर्तमानान् साधूनाचार्या निषेधयन्ति सातिशयत्वात्तेषामिति तदतिशयप्रतिपादनायाह- आयरियेत्यादि, पञ्चस्थानके व्याख्यातप्रायं तथापि किञ्चिदुच्यते- आचार्योपाध्यायो निगृह्य निगृह्य अन्तर्भूतकारितार्थत्वेन पादधूल्या: प्रसरन्त्या निग्रहं कारयित्वा प्रस्फोटयन् पादप्रोञ्छनेन वैयावृत्यकरादिना प्रस्फोटनं कारयन् प्रमार्जयन् प्रमार्जनं कारयन् नाज्ञामतिक्रामति, शेषसाधव: उपाश्रयाद् बहिरिदं कुर्वन्तीत्याचार्यादेरतिशयः, [एवमित्यादिनेदं सूचितम् ‘आयरियउवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिंचेमाणे वा विसोहेमाणे वा णाइक्कमइ २, आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा नो करेजा ३, आयरियउवज्झाए अंतो उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे णाइक्कमइ ४, आयरियउवज्झाए बाहिं उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे णाइक्कमइ ५,'] एतद् व्याख्यातमेवेति । इदमधिकम्- उपकरणातिशेष: शेषसाधुभ्य: सकाशात् प्रधानोज्ज्वलवस्त्राद्युपकरणता, उक्तं च
आयरियगिलाणाणं मइला मइला पुणो वि धोवंति । मा हु गुरूण अवन्नो लोगम्मि अजीरणं इयरे ॥ [ओघनि० ३५१] इति ग्लाने इत्यर्थः। भक्तपानातिशेष: पूज्यतरभक्तपानतेति, उक्तं च
१. सू० ४३८ ॥