________________
षष्ठमध्ययनं षट्स्थानकम् ।
५३३ मुहूर्तान्तरे रत्नाधिकेनोक्तम्- व्रजाम: संखड्यामिदानीं भोजनकालो यतस्तत्रेति, लघुर्भणति- प्रतिषिद्धोऽहं न पुनव्रजामि, ततोऽसौ निवृत्याचार्यायेदमालोचयति यथाअयं दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति- साधो ! भवानेवं करोति ?, स आह– नैवमित्यादि, पूर्ववत् प्रस्तार: २, इहाप्युक्तम्मोसम्मि संखडीए मोयगगहणं अदत्तदाणम्मि । आरोवणपत्थारो तं चेव इमं तु नाणत्तं ॥ दीण-कलुणेहिं जायइ पडिसिद्धो विसइ एसणं हणइ । जंपइ मुहप्पियाणि य जोग-तिगिच्छा-निमित्ताई ॥ [बृहत्कल्प० ६१४२-४३] इत्यादि।
एवमदत्तादानस्य वादं वदति, अत्र भावना- एकत्र गेहे भिक्षा लब्धा, सा अवमेन गृहीता, यावदसौ भाजनं संमार्टि तावद्रत्नाधिकेन संखड्यां मोदका लब्धास्तानवमो दृष्ट्वा निवृत्याचार्यस्यालोचयति- यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति ३ । ___ एवमविरति: अब्रह्म, तद्वादं वार्तां वा, अथवा न विद्यते विरतिर्यस्याः सा अविरतिका स्त्री, तद्वादं तद्वार्ती वा तदासेवाभणनरूपां वदति, तथाहि- अवमो भावयति-एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति
जेट्टजेण अकजं सजं अजाघरे कयं अज । उवजीविओ य भंते ! मए वि संसट्ठकप्पोऽत्थ ॥ [बृहत्कल्प० ६१५०] अहमपि तद्भुक्तां भुक्तवानित्यर्थः, प्रस्तारभावना प्राग्वत् ४ । तथा अपुरुषो नपुंसकोऽयमित्येवं वादं वाचं वार्ती वा वदतीति, इह समास: प्रतीत एव, भावनाऽत्र-आचार्यं प्रत्याह- अयं साधुर्नपुंसकम्, आचार्य आह– कथं जानासि?, स आह– एतन्निजकैरहमुक्त:- किं भवतां कल्पते प्रव्राजयितुं नपुंसकमिति ? ममापि किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तार: प्राग्वत्, अत्राप्युक्तम्
तइओ त्ति कहं जाणसि ? दिट्ठा णीया से तेहि मे वुत्तं । वट्टइ तइओ तुब्भं पव्वावेउं मम वि संका ॥