________________
५३२
अरिरे माहणपुत्ता अव्वो बप्पो त्ति भाय मामोति । भट्टी सामिय गोमिय ।। [बृहत्कल्प० ६११६] त्ति |
व्यवशमितं वा उपशमितं वा पुनरुदीरयितुं न कल्पत इति प्रक्रमोऽवचनत्वादस्येति, अनेन व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम् ।
[सू० ५२८] छ कप्पस्स पत्थारा पन्नत्ता, तंजहा - पाणातिवातस्स वायं वयमाणे, मुसावायस्स वादं वदमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरतिवायं वयमाणे, अपुरिसवायं वयमाणे, दासावायं वयमाणे, इच्चेते छ कप्पस्स पत्थारे पत्थरेत्ता सम्ममपरिपूरेमाणे तट्ठाणपत्ते ।
[टी०] अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह - छ कप्पेत्यादि, कल्पः साध्वाचारस्तस्य सम्बन्धिनस्तद्विशुद्ध्यर्थत्वात् प्रस्तारा : प्रायश्चित्तस्य रचनाविशेषाः, तत्र प्राणातिपातस्य वादं वार्तां वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः, यथा अन्यजनविनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह- साधो ! दर्दुरो भवता मारितः, भिक्षुराह— नैवम्, क्षुल्लक आह- द्वितीयमपि व्रतं ते नास्ति, तत: क्षुल्लको भिक्षाचर्यातो निवृत्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानम्, ततः साधयति यथा— तेन दर्दुरो मारित इति प्रायश्चित्तान्तरम्, ततोऽभ्याख्यातसाधुराचार्येणोक्तः यथा दर्दुरो भवता मारित: ?, असावाह - नैवम्, इह क्षुल्लकस्य प्रायश्चित्तान्तरम्, पुनः क्षुल्लक आह- पुनरप्यपलपसीति, भिक्षुराह— गृहस्थाः पृच्छ्यन्ताम्, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं नि तस्य दोषद्वयमिति १, अत्रोक्तम्
ओमो चोइज्जंतो दुपहियाईसु संपसारेइ पर्यालोचयति ।
अहमवि णं चोइस्सं न य लभए तारिसं छिद्दं ॥
अन् घाइए ददुरम्म दट्टु चलणं कयं ओमो ।
वहिओ हा एस तुमे न वत्ति बीयं पि ते णत्थि ।। [बृहत्कल्प० ६१३५-३६ ] इत्यादि,
तथा मृषावादस्य सत्कं वादं विकल्पनं वार्तां वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीति, तथाहि— क्वचित् संखड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो